________________
विभाग-२, अवचूरिः
१५९ शीलतपसोऽपि, कल्पितम्-आचरितं स्वबुद्ध्या दानं शीलं तपो येन तस्य, यद्यपि तपःप्रभृति मुक्त्यर्थं करोति तथापि न मोक्षः । पुनः कथम्भूतस्य ? एतत्क्रमस्थायिनः, एतस्य-कुसङ्घस्य यः क्रमः-परम्परा तत्र स्थायिनः । हरिणपक्षे एतस्य मृगस्य प्रहारार्थं सञ्जितः क्रमः-चरणस्तत्र स्थायिनः पादपतितस्येत्यर्थः ॥३३॥ इति द्वारदशकं व्याख्यातम् ॥ पुनरप्याह
इत्थं मिथ्यापथकथनया तथ्ययाऽपीह कश्चित्मेदं ज्ञासीदनुचितमथो मा कुपत्कोऽपि यस्मात् । जैनभ्रान्त्या कुपथपतितान् प्रेक्ष्य →स्तत्प्रमोहा,
पोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥३४॥ व्याख्या-इत्यं० ॥ इत्थम्-अमुना प्रकारेण तथ्ययाऽपि-सत्ययाऽपि मिथ्यापथकथनया, मिथ्यापथस्य-हीनाचारिमार्गस्य कथना-प्रकटना तया, इह प्रवचने कश्चिज्जन्तुर्जिनशासनस्थः मा इदं ज्ञासीत्, यदिदं परदोषोद्धाटनम् अनुचितम्-अयोग्यम् । अथो-अथवा कोऽपिकश्चिदपि मा कुपत्-मा क्रुधत् यत् 'किमनेन रागद्वेषवाक्येने'-ति कोपं-द्वेषं मा करोतु यस्मात्कारणात् जैनभ्रान्त्याजैनमार्गभ्रमेण कुपथपतितान् कुपथे हीनाचारीप्ररूपिते पतितान् नन्-नरान् प्रेक्ष्य अथ तत्प्रमोहापोहाय, तेषां-जन्तूनां प्रमोहः-अज्ञानं तस्याऽपोहः-निराकरणं तस्मै, तन्मोहनिराकरणाय इदं-प्रत्यक्षं किमपि कियन्मानं कृपया-दयया 'अहो ! अमी वराका: कथं भविष्यन्ती ?' ति कृपया कल्पितंप्रोक्तं च-पुनर्जल्पितं-ग्रन्थरचनया प्रारब्धं न तु रागद्वेषाभ्यामिति ॥३४॥ तत्र कारणमाह
प्रोद्भूतेऽनन्तकालात्कलिमलनिलये नामनेपथ्यतोऽर्हन्, मार्गभ्रान्तिं दधानेऽथ च तदभिमरे तत्त्वतोऽस्मिन् दुरध्वे । कारुण्याद् यः कुबोधं नृषु निरसिसिषुर्दोषसङ्ख्यां विवक्षे,
दम्भोऽम्भोधेः प्रमित्सेत् स सकलगगनोल्लङ्घनं वा विधित्सेत् ॥३५॥ व्याख्या-प्रोद्भ० ॥ यः पुरुषः अस्मिन् दुरध्वे-दुष्टमार्गे हीनाचारिप्ररूपिते दोषसङ्ख्याम्इयत्तया दोषपरिमाणं विवक्षेत्-वक्तुमिच्छेत् स पुरुषः अम्भोधेः-समुद्रस्य अम्भः-जलं प्रमित्सेत्-प्रमातुमिच्छेत् वा-अथवा सकलगगनोल्लङ्घन-समस्ताकाशस्य पद्भ्यामुल्लङ्घनं विधित्सेत्-कर्तुमिच्छेत् । यथा समुद्रजलमानम् आकाशलङ्घनं कर्तुमशक्यं तथा हीनाचारिदोषसङ्ख्यां वक्तुं न पार्यत इति । कथम्भूतः ? यः कारुण्यात्-दयातो नृषु-नरेषु कुबोधंकुतत्त्वज्ञानं निरसिसिषुः-भक्तुमिच्छुः । कथम्भूते दुरध्वे ? अनन्तकालात्-अनन्तकालेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org