________________
श्री सङ्घपट्टकः
१६०
प्रोद्भूते - सञ्जाते । पुनः किम्भूते ? कलिमलनिलयेपापस्थाने । पुनः किम्भूते ? नामनेपथ्यतः, नाम्ना नेपथ्यं - वेषस्तस्मात् नाममात्रवेषधारणतोरर्हन्मार्गभ्रान्ति दधाने 'अहो ! अमी वेषमात्रधारका अपि साधवः' इति भ्रान्ति विधायके । अथ च पुनरपि तत्त्वतः - परमार्थत: तदभिमरे, तस्य- अर्हन्मतस्य अभिमरे घातके चौरप्राये, यथा चौराः प्रच्छन्नवृत्त्या वेषपरावर्त्तेन राजादिकं ध्नन्ति तथा एतेऽपि लिङ्गमात्रधारकत्वेनाऽर्हन्मार्गघातका एवेति ॥ ३५ ॥
न सावद्याम्नाया न बकुश-कुशीलोचितयति, क्रियामुक्ता युक्ता न मद-ममता - जीवनभयैः । न संक्लेशावेशा न कदभिनिवेशा न कपट, -
प्रिया ये तेऽद्यापि स्युरिह यतयः सूत्ररतयः ॥३६॥
व्याख्या - न सा० ॥ ते अद्यापि साम्प्रतमपि इह - जिनशासने यतयः साधवः स्युः ये एवंविधाः । किम्भूता: ? न सावद्याम्नायाः, सावद्यः - सपापः आधाकर्मभोजनादिरूपम् आम्नायः-परम्परा येषां ते तथा चैत्यवासाद्याम्नायवन्तो ये नेत्यर्थः । पुनः किम्भूताः ? बकुशकुशीलोचितयतिक्रियामुक्ता न, बकुशं सबलम् अतिचारपङ्केन चारित्रं येषां ते बकुशाः, कुत्सितं शीलं चरणं येषां ते कुशीलाः तेषामुचिता - योग्या या यतिक्रिया - साधुसामाचारी तया मुक्ता- वियुक्ता न ये तावद् बकुशकुशीलक्रियावन्तस्तेऽधुना सुसाधव एव, "बकुशकुशीले हि वट्टपरितित्थं" इतिवचनात् । अत्र पञ्च निर्ग्रन्था:- बकुश - कुशील पुलाक-निर्ग्रन्थस्नातकभेदात् । बकुशा द्विविधा उपकरण - देहभेदात् । ये वर्षे प्रत्यासत्तिमन्तरेणापि कदाचिद् वस्त्रादिकं धावति श्लक्ष्णाद्यंशुकादि जिघृक्षन्ति, कदाचित्परिदधते, पात्रदण्काद्यपि घृष्टतैलादिम्रक्षणोत्पादिततैजस्कं च धारयन्ति, उपकरणमप्यतिरिक्तं चार्थयन्ते ते उपकरणबकुशाः । ये करचरणनखादीन् कदाचिन्निर्निमित्तं भूषयन्ति ते देहबकुशाः । इमे द्विविधा अप शिष्यादिपरिवारादिकां विभूर्ति तपः पाण्डित्यादिप्रभवं च यशः प्रार्थयन्ते, प्रमोदन्ते छेदा - श्चातिचारैर्बहुभिः शबलिता अपि कर्मक्षयार्थमुद्यता इत्यादि । कुशीलो द्विविधः आसेवनाकषायभेदात्, ये ज्ञानदर्शनचारित्रतपांसि किञ्चिदुपजीवन्ति ते आसेवनाकुशीलाः, ये क्रोधादिभिः कषायैर्ज्ञानादिगुणान् विराधयन्ति ते कषायकुशीलाः मूलोत्तरगुणविराधकाश्च पञ्चनिर्ग्रन्थमध्ये केऽपि । पञ्चानां विस्तरतः स्वरूपं श्री भगवतीसूत्रादिभ्यश्च ज्ञेयम् । ननु ये एवं शिथिलक्रियायुक्ताः कर्तितकेशा उपकरणधारकाः मूलोत्तरगुणविराधकास्ते निर्ग्रन्थाः कथं तेषां स्वरूपं केन प्रकारेण ? इति चेदुच्यते एतेषां कर्त्तव्यता तावत् प्रवाहमार्गेण नास्ति किन्तु कदाचिन्महति कारणे जाते धावनादिका क्रिया, इति, मूलगुणविराधनं च मनश्च विराधनादिप्रकारेणेति रहस्यं सदा तत्कर्त्तव्यता नास्तीति ॥ पुनः किम्भूताः ? मदममताजीवनभयैः, मदोगर्वः, ममता-प्रतिबन्धः, आजीवनभयं भिक्षाद्याजीविकाभयं तैर्मदममताजीवनभयैः न
1
Jain Education International
1
For Personal & Private Use Only
www.jainelibrary.org