________________
विभाग-२, अवचूरिः
१६१ युक्ताः-न स्पृष्टाः । पुनः किम्भूताः ? न संक्लेशस्य-रौद्राध्यवसायस्य आवेशः-उत्कर्षों येषां ते न संक्लेशावेशाः । पुनर्न कदभिनिवेशाः, कत्-कुत्सितः अभिनिवेशः-कदाग्रहो येषां ते, तथा कपटप्रियाः-मायावल्लभा न पुनः किम्भूताः ? सूत्ररतयः सूत्रे रतिर्येषां ते सूत्ररतयःसिद्धान्तरुचयः ॥३६॥
संविग्नाः सोपदेशाः श्रुतनिकषविदः क्षेत्र कालाद्यपेक्ष्या,ऽनुष्ठानाः शुद्धमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः ।। वन्द्याः सत्साधवोऽस्मिन्नियम-शम-दमौचित्य-गाम्भीर्य-धैर्य,
स्थैौदार्यचर्याविनय-नय-दया-दक्ष्य-दाक्षिण्यपुण्याः ॥३७॥ व्याख्या-संविग्नाः ॥ अस्मिन्-जिनशासने एवम्भूताः सत्साधवः-शोभनसाधवो वन्द्याः । किम्भूताः ? संविग्नाः-मोक्षाभिलाषुकाः । पुनः किम्भूताः ? सोपदेशाः, सह उपदेशेन-धर्मोपदेशेन वर्तन्ते ये ते सोपदेशाः । पुनः किम्भूताः ? श्रुतनिकषविदः-श्रुतमेवशास्त्रमेव निकषः-कषपट्टस्तद्विदः-आगमरहस्यनिपुणाः । पुनः किम्भूताः ? क्षेत्रकालाद्यपेक्ष्यानुष्ठानाः, क्षेत्रकालाद्यपेक्ष्यक्षेत्रकालाद्यनुसारि, आदि शब्दाच्छरीरबलादिग्रहः, अनुष्ठानंकर्तव्यता येषां ते द्रव्यक्षेत्रकालभावानपेक्ष्य, क्रियाकर्तार इति । पुनः किम्भूताः ? शुद्धमार्गप्रकटनपटवः, शुद्धमार्गस्य प्रकटने पटवः-सावधानाः । पुनः किम्भूताः ? प्रास्त:दूरीकृतः मिथ्याप्रवादो यैस्ते प्रास्तमिथ्याप्रवादाः । पुनः किम्भूताः ? नियम, नियम:अभिग्रहः, शमः-उपशमः, दमः-इन्द्रियजयः, औचित्यंयोग्यता, गाम्भीर्यम्-अलक्ष्यविकारत्वं, धैर्य-धीरत्वं, स्थैर्य-विमृष्टकारित्वम्, औदार्यम्-उदारत्वम् आर्यचर्या-सत्पुरुषप्रवृत्तिः, विनयः-अभ्युत्थानादिः, नयः-न्यायः, दया-कृपा, दक्ष्यं-धर्मक्रियाऽनालस्यं, दाक्षिण्यं-सरलता, एभिर्गुणैः पुण्या:-पवित्राः ॥३७॥ __ स्वनामगर्भितकाव्यमाह
बिभ्राजिष्णुमगर्वमस्मरमनासादं श्रुतोल्लङ्घने, सज्ज्ञानधुमणि जिनं वरवपुःश्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधाऽसुरनरैः शक्रेण चैनच्छिदम्,
दम्भारिं विदुषां सदा सुवचसाऽनेकान्तरङ्गप्रदम् ॥३८॥ व्याख्या-बिभ्रा० ॥ जिनं-तीर्थंकरं वन्दे । किम्भूतं जिनं ? बिभ्राजिष्णुम्-अतिशयैः शोभायमानम् । पुनः अगर्वम्-अहङ्काररहितम् । पुनः अस्मरं-कन्दर्परहितम् । पुनः किम्भूतं ? श्रुतोल्लङ्घनेसिद्धान्ताज्ञाऽतिक्रमे अनाशादम्, आशां-मनोरथं ददातीति आशादः, न आशादोऽनाशादस्तम् । पुनः किम्भूतं ? सज्ज्ञानेन प्रधानकेवलज्ञानेन धुमणि-सूर्यम् । पुनः किम्भूतं ? वरा-प्रधाना वपुः श्री:-शरीरकान्तिः सैव चन्द्रिका-ज्योत्स्ना तया भेश्वरं-नक्षत्रनाथं चन्द्रम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org