________________
१६२
श्री सङ्घपट्टकः असुरनरैः-दानवमानवैः शक्रेणइन्द्रेण अनेकधा-अनेकप्रकारेण वयँ-वर्णनीयम् । पुनः एनच्छिदम्, एनः-पापं छिनत्तीति पापच्छेदकमित्यर्थः । पुनः दम्भारिं, दम्भस्य-कपटस्य अरि:वैरी दम्भारिस्तम् । पुनः विदुषांपण्डितानां सदा-निरन्तरं सुवचसा-सुवाक्येन अनेकान्तरङ्गप्रदम्, अनेकान्तः-स्याद्वादस्तस्य रङ्गस्तं प्रददातीति अनेकान्तरङ्गप्रदस्तम् । वचनेन भगवान् स्याद्वादत्वं प्ररूपयन्तीति । चक्रमाघसमं, यथा माघकाव्ये चक्रबन्धतया वर्त्तते तथाऽत्र चक्रमाघतुल्यं चक्रबन्धं जिनवल्लभेन गणिनेदं चक्रे' इति नाम वर्त्तते । चक्रस्थापना प्रसिद्धैव ॥३८॥
जिनपतिमतदुर्गे कालतः साधुवेषै,-विषयिभिरभिभूते भस्मकम्लेच्छसैन्यैः । स्ववशजडजनानां श्रृङ्खलेव स्वगच्छस्थितिरियमधुना तैरप्रथि स्वार्थसिद्धयै ॥३९॥
व्याख्या-जिनपति० ॥ तै:-चैत्यवासिभिः इयं स्वगच्छस्थितिः-स्वगच्छमर्यादा. अधुनासाम्प्रतम् अप्रथि-विस्तारिता । कस्यै ? स्वार्थसिद्ध्यै-स्वोदरभरणप्रयोजनाय । कथम्भूता ? स्ववशजडजनानां, स्ववशाः-आत्मवशा ये जडाः-मूर्खाः जनाः-लोकास्तेषां श्रृङ्खला इव 'अस्मान् विमुच्य नान्यत् गन्तव्यम्' एवं श्रृङ्खला । क्व सति ? साधुवेषैः-साधुवेषमात्रधारकैस्तैरेव कालतः पञ्चमारकात् जिनपतिमतदुर्गे अभिभूते-पराभूते, जिनपतेः-तीर्थकरस्य मतं-शासनं तदेव दुर्ग:-कोट्टविशेष-स्तस्मिन् । कथम्भूतैः ? विषयिभिः-विषयसेवकैः । पुनः किम्भूतैः ? भस्मकम्लेच्छसैन्यैः भस्मकः-भस्मग्रह एव म्लेच्छः-तुरष्काधिपतिस्तस्य सैन्याः सैन्यस्वरूपास्ते, यथा तुरष्काधिपतेः सैन्यं भवति तथा भस्मकस्यैते सैन्या इति ॥३९॥
सम्प्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मकम्लेच्छातुच्छबले दुरन्तदशमाश्चर्ये च विस्फूर्जिते । प्रौढिं जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरैरेकीभूय सदागमस्य कथयाऽपीत्थं कदर्थ्यामहे ॥४०॥
॥ इति श्रीसङ्घपट्टकसूत्रं सम्पूर्णम् ॥ व्याख्या-सम्प्र० ॥ लोकैर्वयम् इत्थम्-अमुना प्रकारेण कदामहे । कया ? सदागमस्य कथयाऽपि, सन्-प्रधानः आगम:-सिद्धान्तस्तस्य सदागमस्य कथयाऽपि कथनेनापि । यदा शुद्धमार्गस्य कथाऽपि क्रियते तदा लोकाः कदर्थनां कुर्वन्तीति । क्व सति ? सम्प्रति-अधुना भस्मकम्लेच्छातुच्छबले प्रोज्जृम्भिते, भस्मकः-भस्मग्रहः, स एव म्लेच्छ:-तुरष्काधिपतिस्तस्य अतुच्छं-प्रचुरं बलं तस्मिन् प्रोज्जृम्भिते-प्रोद्दीप्ते सति । कथम्भूते बले ? अप्रतिमेमहातेजस्विनि, पुनः कथम्भूते ? कुसङ्घः-वपुषि, कुसङ्घ-हीनाचारिसङ्घ एव वपुः-शरीरं यस्य स तस्मिन् प्रत्यक्षतो दृश्यमानकुसङ्घशरीरे च-पुनः दुरन्तदशमाश्चर्षे दुष्णसंयतपूजालक्षणदशमाश्चर्ये विस्फूजिते-प्रकटीभूते सति । कविवचसा दशमाश्चर्यस्य पञ्चमारके प्रादुर्भावः । पुनः मोहराजकटके-मोहनीयकर्मरूपराजसैन्ये प्रौढिं-विस्तारत्वं जग्मुषि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org