________________
विभाग-२, अवचूरिः
१६३ प्राप्तवति । भस्मकग्रहचैत्यवास्यादयः सर्वेऽपि मोहनीयसैन्यरूपा एव । किं कृत्वा कदर्थ्यामहे? एकीभूय-एकपक्षतां कृत्वा । कथम्भूतैर्लोकः ? तदाज्ञापरैः, तस्य-मोहाजस्य आज्ञा, तत्र परा:-सावधानास्तैः-मोहाज्ञावशवर्तिभिः । संसाररूपनगरे मोहराजा दुस्सङ्घस्तस्य सैन्यंभस्मग्रहो महासामन्तो दशमाश्चर्यं द्वितीयः सामन्त इति रहस्यमिति काव्यार्थः ॥४०॥
ग्रन्थकारप्रशस्तिः श्रीमत्खरतरगच्छे श्रीमज्जिनभद्रसूरिशाखायाम् । श्रीपद्ममेरुसुगुरु-र्व्यवहार्यत्वयसुरं दुरि च ॥१॥ तच्छिष्यो वाक्पतिरिह, श्रीमन्मतिवर्द्धनो गुरुर्जीयात् । श्रीमेरुतिलकनामा, तत्प्राथमकल्पिकः समभूत् ॥२॥ तच्छिष्यौ प्रवरगुणौ, दयाकलशसद्गणिप्रभाधुमणिम् । अमरमाणिक्यसुगुरुः, समस्तसिद्धान्तधौरेयः ॥३॥ तच्छिष्येण सुविहिता, सुगमेयं साधुकीर्तिगणिनाऽपि । एकोनविं१६१९शसमाधिक,-षोडशसंवत्सरे प्रवरे ॥४॥ माघमासे शुक्लपक्षे, पञ्चम्यां प्रवरयोगपूर्णायाम् । विबुधैः प्रपद्यमाना, समस्तसुखदायिनी भवतु ॥५॥
॥ इति श्रीजिवल्लभसूरिकृत-सङ्घपट्टकावचूरिः सम्पूर्णा ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org