Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 187
________________ श्री सङ्घपट्टकः १६० प्रोद्भूते - सञ्जाते । पुनः किम्भूते ? कलिमलनिलयेपापस्थाने । पुनः किम्भूते ? नामनेपथ्यतः, नाम्ना नेपथ्यं - वेषस्तस्मात् नाममात्रवेषधारणतोरर्हन्मार्गभ्रान्ति दधाने 'अहो ! अमी वेषमात्रधारका अपि साधवः' इति भ्रान्ति विधायके । अथ च पुनरपि तत्त्वतः - परमार्थत: तदभिमरे, तस्य- अर्हन्मतस्य अभिमरे घातके चौरप्राये, यथा चौराः प्रच्छन्नवृत्त्या वेषपरावर्त्तेन राजादिकं ध्नन्ति तथा एतेऽपि लिङ्गमात्रधारकत्वेनाऽर्हन्मार्गघातका एवेति ॥ ३५ ॥ न सावद्याम्नाया न बकुश-कुशीलोचितयति, क्रियामुक्ता युक्ता न मद-ममता - जीवनभयैः । न संक्लेशावेशा न कदभिनिवेशा न कपट, - प्रिया ये तेऽद्यापि स्युरिह यतयः सूत्ररतयः ॥३६॥ व्याख्या - न सा० ॥ ते अद्यापि साम्प्रतमपि इह - जिनशासने यतयः साधवः स्युः ये एवंविधाः । किम्भूता: ? न सावद्याम्नायाः, सावद्यः - सपापः आधाकर्मभोजनादिरूपम् आम्नायः-परम्परा येषां ते तथा चैत्यवासाद्याम्नायवन्तो ये नेत्यर्थः । पुनः किम्भूताः ? बकुशकुशीलोचितयतिक्रियामुक्ता न, बकुशं सबलम् अतिचारपङ्केन चारित्रं येषां ते बकुशाः, कुत्सितं शीलं चरणं येषां ते कुशीलाः तेषामुचिता - योग्या या यतिक्रिया - साधुसामाचारी तया मुक्ता- वियुक्ता न ये तावद् बकुशकुशीलक्रियावन्तस्तेऽधुना सुसाधव एव, "बकुशकुशीले हि वट्टपरितित्थं" इतिवचनात् । अत्र पञ्च निर्ग्रन्था:- बकुश - कुशील पुलाक-निर्ग्रन्थस्नातकभेदात् । बकुशा द्विविधा उपकरण - देहभेदात् । ये वर्षे प्रत्यासत्तिमन्तरेणापि कदाचिद् वस्त्रादिकं धावति श्लक्ष्णाद्यंशुकादि जिघृक्षन्ति, कदाचित्परिदधते, पात्रदण्काद्यपि घृष्टतैलादिम्रक्षणोत्पादिततैजस्कं च धारयन्ति, उपकरणमप्यतिरिक्तं चार्थयन्ते ते उपकरणबकुशाः । ये करचरणनखादीन् कदाचिन्निर्निमित्तं भूषयन्ति ते देहबकुशाः । इमे द्विविधा अप शिष्यादिपरिवारादिकां विभूर्ति तपः पाण्डित्यादिप्रभवं च यशः प्रार्थयन्ते, प्रमोदन्ते छेदा - श्चातिचारैर्बहुभिः शबलिता अपि कर्मक्षयार्थमुद्यता इत्यादि । कुशीलो द्विविधः आसेवनाकषायभेदात्, ये ज्ञानदर्शनचारित्रतपांसि किञ्चिदुपजीवन्ति ते आसेवनाकुशीलाः, ये क्रोधादिभिः कषायैर्ज्ञानादिगुणान् विराधयन्ति ते कषायकुशीलाः मूलोत्तरगुणविराधकाश्च पञ्चनिर्ग्रन्थमध्ये केऽपि । पञ्चानां विस्तरतः स्वरूपं श्री भगवतीसूत्रादिभ्यश्च ज्ञेयम् । ननु ये एवं शिथिलक्रियायुक्ताः कर्तितकेशा उपकरणधारकाः मूलोत्तरगुणविराधकास्ते निर्ग्रन्थाः कथं तेषां स्वरूपं केन प्रकारेण ? इति चेदुच्यते एतेषां कर्त्तव्यता तावत् प्रवाहमार्गेण नास्ति किन्तु कदाचिन्महति कारणे जाते धावनादिका क्रिया, इति, मूलगुणविराधनं च मनश्च विराधनादिप्रकारेणेति रहस्यं सदा तत्कर्त्तव्यता नास्तीति ॥ पुनः किम्भूताः ? मदममताजीवनभयैः, मदोगर्वः, ममता-प्रतिबन्धः, आजीवनभयं भिक्षाद्याजीविकाभयं तैर्मदममताजीवनभयैः न 1 Jain Education International 1 For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262