Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 183
________________ १५६ श्री सङ्घपट्टकः, कथंभूतानां ? निरंतरमहामोहात्-निरन्तरमहामोहनीयकर्मणः सकाशात् अहम्मानिनां-अभिमानवतां पुनः किं स्वयमात्मना नष्टानां-भ्रष्टानां पुनः कथंभूतानां ? सदा अन्य नाशनकृतेऽन्यभ्रंशकराय बद्धोद्यमानां-कृतोद्यमानां स्वयं नष्टोऽन्यान्नाशयति इति अत एव तेषां वचो न श्रोतव्यमिति ॥२७॥ यत्किञ्चिद्वितथं यदप्यनुचितं यल्लोकलोकोत्तरोत्तीर्णं यद् भवहेतुरेव भविनां यच्छास्त्रबाधाकरम् । तत्तद्धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मत, भ्रान्त्या लान्ति च हा ! दुरन्तदशमाश्चर्यस्य विस्फूर्जितम् ॥२८॥ व्याख्या यत्किञ्चि० ॥ कुधियः-कुपण्डितास्तत्तत् वस्तुधर्मरूपतया ब्रुवन्ति, तत्किं ? यत् किं तत्राह-यत्किञ्चित् वितथम् अलीकं श्रेणिकराजरजोहरणवन्दनादि यदपि अनुचितम् अयोग्यं पित्राद्युद्देशेन यात्राकरणादि अथवा जिनमंदिरे लकुडक्रीडादि अयोग्य, यत् लोकलोकोत्तरोत्तीर्णलोकलोकोत्तरमार्गत उत्तीर्णं बाह्यं सूतकगृहे भिक्षाग्रहणादिरजस्वलापूजा, हीनजातिभ्यः परमेष्ठिमन्त्रपाठनं दीक्षणं जैनेन्द्रप्रतिमाकारणं च, तथा यद् भविनाभव्यानां भवहेतुः-संसारहेतुः । एवं निश्चयेन जिनमन्दिरे जलक्रीडादि यत् शास्त्रस्य बाधाकरसिद्धान्तविरुद्धम् आधाकर्मभोजनादि । अथ श्रावणाधिक्ये पर्युषणाया अशीतितमेऽह्नि विधानम्, इत्यादि धर्मतया प्ररूपयन्ति मूढाः-मूर्खास्तद् अर्हन्मतभ्रान्त्याभगवन्मतभ्रमेण लान्ति-स्वीकुर्वन्ति शुक्तिशकले रजतवत् । 'हा' इति खेदे दुरन्तदशमाश्चर्यस्य दुष्टासंयतपूजालक्षणस्य विस्फूर्जितं-विलसितं पश्यतेति ॥२८॥ कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः, कान्तारे प्रदिशत्यभीप्सितपुराध्वानं किलोत्कन्धरः । एतत्कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विद, स्तद्वाक्याननुवर्तिमो हसति यत्सावज्ञमज्ञानिव ॥२९॥ व्याख्या-कष्ट० ॥ यस्मात्कारणात् किलेति सत्येन नृणां-मनुष्याणां जात्यन्धवैदेशिकः, जात्याजन्मना अन्धः-नेत्रविकलः, स चासौ वैदेशिकः-विदेशोत्पन्नः । एवम्भूतः कश्चित् कान्तारे-अटव्याम् अभिप्सितपुराध्वानम्, अभीप्सितस्य-इष्टस्य पुरस्य अध्वानं-मार्गं प्रदिशति दर्शयति तत्कष्टम् । कथम्भूतानां नृणां ? नष्टदिशां-दिङ्मूढानाम् । पुनः कथम्भूताम् ? अदृशांदृष्टिविकलानामन्धानाम् कथम्भूतो जात्यन्धवैदेशिकः ? उत्कन्धरः-ऊर्वीकृतग्रीवः, यो मार्ग दर्शयति स ग्रीवामूर्वीकरोति । तु-पुनः एतत् कष्टतरम्-अतिशयेन कष्टं तदाह-सोऽपि जात्यन्ध वैदेशिकः यत्-यस्मात् सुदृशः-सुनेत्रान् पुरुषान् हसति तत्कष्टतरम् । कथम्भूतान् सुदृशः ? सन्मार्गगान्-शोभनमार्गगमनशीलान् । पुनः कथम्भूतान् ? तद्विदः-शोभनमार्गगमनज्ञातॄन् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262