Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 165
________________ श्री सङ्घपट्टकः मध्यापनादिषु विपुलाशयता । आर्यचर्या सत्पुरुषक्रमवृत्तिता । विनयो गुर्वादिष्वभ्युत्थानादिप्रतिपत्तिः । नयो लोकलोकोत्तराविरुद्धवर्त्तित्वम् । दया दुस्थितादिदर्शनार्द्रान्तःकरणत्वम् । दाक्ष्यं धर्मक्रियास्वनालस्यम् । दाक्षिण्यं सरलचित्तता ॥ ततो द्वन्द्वः एभिर्गुणैः पुण्याः पवित्रा मनोज्ञा वा साधवो वन्दनाद्यर्हन्तीति वृत्तार्थः ॥३७॥ १३८ साम्प्रतं प्रकरणकारः प्रकरणं समाप्नुवन्निष्टदेवतास्तवछद्मनाऽवसानमङ्गलं सूचयंश्चक्रबन्धेन स्वनामधेयमाविर्विभावयिषुराह ॥ ॥ मूल काव्यम् ॥ विभ्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लङ्घने, सद्ज्ञानद्युमणि जिनं वरवपुः श्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधासुरनरैः शक्रेण चैनश्छिदं, दंभारिं विदुषां सदा सुवचसानेकान्तरङ्गप्रदम् ॥३८॥ टीका:- जिनं वन्दे इति सम्बन्धः ॥ विभ्राजिष्णुं त्रिभुवनातिशायिचतुस्त्रिंशदतिशयवत्त्वेनात्यन्तं शोभमानम् ॥ अगर्वं उच्र्च्छिताहङ्कारम् ॥ अस्मरं मथितमन्मथम् ॥ श्रुतोल्लङ्घने सिद्धान्ताज्ञातिक्रमे अनाशादं आशां मनोरथं ददाति पूरयति आशादः न आशादोऽनाशादस्तं श्रुताज्ञातिक्रमकारिणः पुंसो नानुमन्तारमित्यर्थः ॥ सद्ज्ञानद्युमणि सद्ज्ञानेन केवलज्ञानेन लोकालोकावभासकत्वाद् भास्वन्तं जिनं तीर्थंकरम् ॥ तथा ॥ सव्वसुरा जइ रूवं, अंगुठपमाणयं विउविज्जा ॥ जिणा पायंगुठपहे न सोहए तं गालो || इत्यादिवचनेन वरा सर्वाङ्गसुभगावपुश्रीः शरीरकान्तिः सैव चन्द्रिका जगतीजनप्रमोददायित्वात्कौमुदी तया भेश्वरं नक्षत्रनाथं । चन्द्रिकया चन्द्रवद्वपुः श्रियास्त्रीजगदाह्लादकमित्यर्थः वन्दे स्तुवे ॥ वर्ण्यं स्तुत्यम् अनेकधा बहुधा असुरनरैः दानवमानवैः शक्रेण मघोना चः समुच्चये ॥ एनच्छिदं कल्मषसर्वंकषम् ॥ दम्भारिं शाठ्यनिष्ठापकं विदुषां विपश्चित्तां सदा सर्वदा सुवचसा मधुरगरा ॥ अनेकान्तरङ्गप्रदं किल जैनदर्शने त्रैलोक्यवर्त्तिसकलं वस्तुजातं सदसन्नित्यानित्यादिरूपतयाऽनेकान्तात्मकमभ्युपगम्यते ॥ तथैव प्रमाणोपपन्नत्वात् न तु परतीर्थिकवत्सदेवासदेव वा ॥ नित्यमेवाऽनित्यमेव वेत्यादिरुपतयैकान्तात्मकम् ॥ तस्य विचारासहत्वात् ॥ ततोऽनेकान्तेऽनेकान्तात्मकवस्तुवादे रङ्गमनुरागं प्रदत्ते उत्पादयति यः स तथा तम् ॥ अनेकान्तवादप्रीत्युत्पादकं तर्कशर्करा - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262