________________
श्री सङ्घपट्टकः
मध्यापनादिषु विपुलाशयता । आर्यचर्या सत्पुरुषक्रमवृत्तिता । विनयो गुर्वादिष्वभ्युत्थानादिप्रतिपत्तिः । नयो लोकलोकोत्तराविरुद्धवर्त्तित्वम् । दया दुस्थितादिदर्शनार्द्रान्तःकरणत्वम् । दाक्ष्यं धर्मक्रियास्वनालस्यम् । दाक्षिण्यं सरलचित्तता ॥ ततो द्वन्द्वः एभिर्गुणैः पुण्याः पवित्रा मनोज्ञा वा साधवो वन्दनाद्यर्हन्तीति वृत्तार्थः ॥३७॥
१३८
साम्प्रतं प्रकरणकारः प्रकरणं समाप्नुवन्निष्टदेवतास्तवछद्मनाऽवसानमङ्गलं सूचयंश्चक्रबन्धेन स्वनामधेयमाविर्विभावयिषुराह ॥
॥ मूल काव्यम् ॥
विभ्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लङ्घने, सद्ज्ञानद्युमणि जिनं वरवपुः श्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधासुरनरैः शक्रेण चैनश्छिदं, दंभारिं विदुषां सदा सुवचसानेकान्तरङ्गप्रदम् ॥३८॥
टीका:- जिनं वन्दे इति सम्बन्धः ॥ विभ्राजिष्णुं त्रिभुवनातिशायिचतुस्त्रिंशदतिशयवत्त्वेनात्यन्तं शोभमानम् ॥ अगर्वं उच्र्च्छिताहङ्कारम् ॥ अस्मरं मथितमन्मथम् ॥ श्रुतोल्लङ्घने सिद्धान्ताज्ञातिक्रमे अनाशादं आशां मनोरथं ददाति पूरयति आशादः न आशादोऽनाशादस्तं श्रुताज्ञातिक्रमकारिणः पुंसो नानुमन्तारमित्यर्थः ॥
सद्ज्ञानद्युमणि सद्ज्ञानेन केवलज्ञानेन लोकालोकावभासकत्वाद् भास्वन्तं जिनं तीर्थंकरम् ॥ तथा ॥ सव्वसुरा जइ रूवं, अंगुठपमाणयं विउविज्जा ॥ जिणा पायंगुठपहे न सोहए तं गालो ||
इत्यादिवचनेन वरा सर्वाङ्गसुभगावपुश्रीः शरीरकान्तिः सैव चन्द्रिका जगतीजनप्रमोददायित्वात्कौमुदी तया भेश्वरं नक्षत्रनाथं । चन्द्रिकया चन्द्रवद्वपुः श्रियास्त्रीजगदाह्लादकमित्यर्थः वन्दे स्तुवे ॥
वर्ण्यं स्तुत्यम् अनेकधा बहुधा असुरनरैः दानवमानवैः शक्रेण मघोना चः समुच्चये ॥ एनच्छिदं कल्मषसर्वंकषम् ॥ दम्भारिं शाठ्यनिष्ठापकं विदुषां विपश्चित्तां सदा सर्वदा सुवचसा मधुरगरा ॥ अनेकान्तरङ्गप्रदं किल जैनदर्शने त्रैलोक्यवर्त्तिसकलं वस्तुजातं सदसन्नित्यानित्यादिरूपतयाऽनेकान्तात्मकमभ्युपगम्यते ॥
तथैव प्रमाणोपपन्नत्वात् न तु परतीर्थिकवत्सदेवासदेव वा ॥ नित्यमेवाऽनित्यमेव वेत्यादिरुपतयैकान्तात्मकम् ॥ तस्य विचारासहत्वात् ॥ ततोऽनेकान्तेऽनेकान्तात्मकवस्तुवादे रङ्गमनुरागं प्रदत्ते उत्पादयति यः स तथा तम् ॥ अनेकान्तवादप्रीत्युत्पादकं तर्कशर्करा -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org