________________
१३९
विभाग-१, बृहद्वृत्तिः रसस्यंदिन्या वाचा तथा भगवाननेकान्तवादं व्युत्पादयति यथा विद्वांसः शेषदर्शनत्यागेन तत्रैव रज्यन्त इत्यर्थः
चक्रमिदं चक्रबन्धः ॥ माघसमं यादृश्या वर्णन्यासपरिपाट्या माघकाव्यस्थचक्र तथा माघकाव्यमिदंशिशुपालवध इत्येवं रूपो नामनिबन्धः प्रादुर्भवति ॥ इहापि तादृश्यैवेति माघसमानार्थः ॥
॥ तथाहि ॥ प्रथमांवलयाकाराणि सान्तराणि त्रीणिरेखायुगलानि व्यवस्थाप्यन्ते ॥ तेषां च त्रीण्यन्तरालानि भवन्ति ॥ ततः सर्वांतरनाभिर्वृत्ताकारा संस्थाप्यते ॥ तस्याश्चषट्सुदिक्षु द्वाभ्यां द्वाभ्यां रेखाभ्यां षड्का अंत्यवलयांत्यारेखां यावत् ॥ एवमेतत् षडरकं चक्रं भवति ॥
तत एकस्य कस्यचिदरकस्यान्तर्गतान्त्यवलयान्तरालेवृतस्य प्रथमाक्षरं लिख्यते ततोऽधस्ताद्वितीयमक्षरं ॥ तस्याधस्तान् मध्यवलयान्तरे तृतीयं ॥ ततोधस्ताच्चतुर्थं पञ्चमे ततो धस्तादाद्यवलयान्तराले षष्ठम् ॥
ततोधस्तात् सप्तमाष्टमनवमानि ॥ ततोनाभी दशमम् ॥ तत प्रथमारकसन्मुखारकादावेकादशद्वादशत्रयोदशानि ॥ ततस्तदुपरिष्टादाद्यवलयान्तरालेचतुर्दशम् ॥ ततस्तदुपरिपञ्चदशषोडशे ॥ ततस्तदुपरिमध्यवलयान्तरासप्तदशम् ॥ तदुपरिष्टादष्टादशम् ॥ ततउपरिष्टादंत्यवलयान्तरालेएकोनवीशम् ॥ एवं वृत्तस्य प्रथमपादोरकद्वये समाप्यते ॥ एवमनेनक्रमेणद्वितीयतृतीयपादावप्यवशिष्टारकचतुष्टय इति ॥ नाभेरक्षरं त्रिरावर्त्यते ॥ ततस्तृतीयपादस्यात्याक्षरं चतुर्थपादाद्याक्षरतयापुनरावारकशून्यान्त्यवलयान्तरे चतुर्थपादस्यद्वितीयतृतीयेक्षरे व्यवस्थाप्येते । तदनन्तरंप्रथमारकान्तः स्ववृत्तप्रथमाक्षरं चतुर्थपादास्यतुर्याक्षरतयावर्त्यतत्पुरतोरकशून्यान्तवलयान्तरे पञ्चमषष्टे अक्षरे लिख्यते ॥ अनेन क्रमेण तावन्नेयं यावत्तृतीयपादस्यान्त्याक्षरं तच्चतृतीयवारमावृत्तंचतुर्थपादस्यान्त्याक्षरतया ज्ञातव्यम् ॥ इह च नामबन्धमत पुनरावृत्तवर्णानुस्वारा यथासंभवं तद्वर्गपञ्चमतयाग्रिमवर्णेषु योज्याः ॥ अत्र जिनवल्लभेन गणिनेदं चक्रे इतिनामबन्धः ॥ स्थापना चेयम् ॥ एतच्चैवं चक्राक्षरन्यासस्वरुपं व्यक्तमपिमुग्धबोधनाय किञ्चिदर्शितमितिवृत्तार्थः ॥३८॥
एवं चानेन प्रकरणेन सप्रपञ्च मिथ्यापथस्वरुपे प्रकटिते प्रभुश्रीजिनवल्लभसूरयः किमित्येवं प्रकष्टवृत्त्या लिङ्गिनो भवद्भिर्दुषिता इति केनाप्युपालब्धास्तस्य च प्रतिवचनं तस्मै वक्ष्यमाणवृत्तद्वयेनोपन्यस्तम् अतस्तदपि प्रकृतानुपातित्वादत्रैव प्रकरणान्तरे निबद्धम् ॥ तदिदानी व्याख्यायत इत्याह ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org