________________
१४०
श्री सङ्घपट्टकः ॥ मूलकाव्यम् ॥ जिनपतिमतदुर्गे कालतः साधुवेषैः, विषयिभिरभिभूते भस्मकम्लेच्छसैन्यैः । स्ववशजडजनानां शृङ्खलेव स्वगच्छे,
स्थितिरियमधुना तैरप्रथि स्वार्थसिद्धयै ॥३९॥ टीका:-जिनपतिमतमेव भगवच्छाशनमेव मिथ्यात्वादिवैरिवाररक्षाक्षमत्वाद्वद्धमूलत्वेन प्रतिपक्षरक्षय्यत्वादुन्नतिमत्त्वेन दुरारोहत्वाच्च दुर्ग प्राकारस्तस्मिन् अभिभूते उपद्रुते विडम्बिते इत्यर्थः ॥ साधुवे लिङ्गिभिः ॥
भस्मको भस्मराशिग्रहः स एवार्हच्छासनरतानां नानाविधबाधाविधायित्वात् म्लेच्छस्तुरुष्काधिपस्तस्य सैन्यास्तदनुवर्तिचेष्टितत्वात् सैनिकास्तैर्विषयिभिः कामुकैः द्वितीयपक्षे वशीकृतबाह्यदेशैः अथ कथमेवंविधस्यापि जिनमतदुर्गस्य विषयिभिरपि लिङ्गिभिरभिभव इत्यत आह ॥ कालतो दुःषमासमयदोषात् अभिभूयन्तेहि कालवशान्महातेजस्विनोपि ॥ यदुक्तम् ॥
समाहतं यस्य करैविसपिभिस्तमो दिगन्तेष्वपि नावतिष्ठते ।
स एष सूर्यस्तमसाभिभूयते स्पृशन्ति किं कालवशेन नापदः ॥ , ततश्च स्ववशजडजनानां सम्यक्त्वाधारो पणव्याजेनात्मायत्तीकृतमुग्धलोकानां स्वगच्छस्थितिः एते वयं सम्प्रदायागता युष्माकं गुरवस्तस्मात्कदाचिदपि न मोक्तव्या इत्यादिका प्राक् प्रतिपादिता निजगच्छमुद्रा इयं एषा अधुना इदानींतनैः साधुवेषैः ॥ अप्रथि सर्वत्रैकमत्येन अतानि ॥
स्वार्थसिद्धयैकथमस्माकमेवैते भोग्या भविष्यन्तीति निजकार्यनिष्पत्तये ॥ अत्रार्थेऽनुरुपमुपमानमाह ॥ श्रृङ्खलेव निगड इव ॥ एतदुक्तं भवति ॥ यथाम्लेच्छसैन्याः कस्मिंश्चिदपिदुर्गे स्वभुजबलेन गृहीते द्रविणाद्यर्थं तदन्तर्वर्तिनागरिकलोकसंयमनाश्रृङ्खला प्रसारयन्ति ॥ तथैतेपि लिङ्गनः स्वोपभोगार्थं मुग्धजननियमनात गच्छस्थिति प्रथयामासुरितिवृत्तार्थः ॥३९॥ ननु यदि ते गच्छस्थिति सर्वत्र विस्तारयामासुरेतावतापि किमित्यत आह ॥
॥ मूलकाव्यम् ॥ संप्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मकम्लेच्छातुच्छबले दूरन्तदशमाश्चर्ये च विस्फूर्जति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org