________________
१४१
विभाग-१, बृहद्वृत्तिः
प्रौढिंजग्मुषि मोहराजकटके लोकैस्तदाज्ञापरै,
रेकीभूय सदागमस्य कथयापीत्थं कदर्थ्यामहे ॥४०॥ टीका:-मोहराजकटके प्रौढिजग्मुषि लोकैर्वयं कदामह इति सम्बन्ध ॥ संप्रत्यधुना प्रोज्जृम्भिते अभ्युदिते भस्मकम्लेच्छातुच्छबले ॥ भस्मराशितुरुष्काधिपसारसैन्ये अप्रतिमे तेजस्वितयाऽनन्यसाधारणे ॥
कुसङ्घ एवप्राक्वर्णितनिर्गुणसाध्वादिसमुदाय एव वपुः शरीरं स्वरुपं यस्यतत्तथा ॥ तस्मिन् भस्मकम्लेच्छस्य हि दुःसङ्घ एव स्वसैन्यम् ॥ ततो यथा म्लेच्छोऽश्वादिसाधनेन परजनपदमभिभवति एवं भस्मकोपि प्रबलदुःसङ्घबलेन भगवच्छासनमालिन्योत्पादनेन तिरस्कुरुते ॥
तथा दुरन्तदशमाश्चर्ये दुष्टा संयतपूजाख्यान्त्याश्चर्ये चः समुच्चये विस्फूर्जति प्रभविष्णौ ॥ एवं च सति प्रौढिं स्फातिं जग्मुषि मोह एव मिथ्याज्ञानमेव लिङ्गिप्रज्ञप्तसंसार मार्गस्यादिकारणत्वादतिदुर्जयत्वाद्रागादिप्रभवत्वाच्च राजा पार्थिवस्तस्य कटके अनीके ॥
प्रागुक्तस्य भस्मकादेः सर्वस्यापि मोहराजपरिच्छेदभूतत्वेन तत्कटककल्पत्वात् ॥ अयमर्थः ॥ मोहो हि दुष्टमौलराजकल्पस्तस्य च दुःसङ्घलक्षणचतुरंगबलकलितो भस्मको म्लेच्छाख्यमहासामंतकल्पः ॥ दशमाश्चर्यं तु स्वत एवातिप्रबलत्वात्साहायान्तरनिरपेक्षमेव द्वितीयमहासामन्तप्रख्यम् ॥ ___ ततो यथा कश्चिन्महाराजाधिराजो म्लेच्छादिमहासामन्तैर्भूमण्डलं साधयति तथा अयमपि मोहराजो भस्मकादिभिर्जिनशासनमभिभवतीति ॥ ततो लोकैः कुसङ्घजनैः तदाज्ञा-परैर्मोहराजशासनमनतिक्रामद्भिः मूढत्वादविमृश्यकारिभिरित्यर्थः एकीभूय दुष्टत्वेनैकमत्यं विधाय ॥ ___इत्थं सकलजनप्रतीतैराक्रोशतर्जनहीलादिभिः प्रकारैः राजवर्चसेन वयं कदामहे पीड्यामहे उपहन्यामह इत्यर्थः ॥ केन हेतुनेत्याह ॥ सदागमस्य लिङ्गिप्रथिन मिथ्यापथोत्पथत्वप्रतिपादकस्य शुद्धसिद्धान्तस्य कथयापि धर्मदेशनाद्वारा विचारमात्रेणापि ॥ यदि हि पक्षप्रतिपक्षपरिग्रहेण साधनदूषणोपन्यासैः प्रकृतविषये परैः सहवादमुपक्रमामहे ॥ ____॥ तदा न विद्मस्ते किमपि कुर्वीरन्नित्यपि शब्दार्थः ॥ तथा च वयं शुद्धसिद्धान्तविचार भव्येभ्योऽनुजिघृक्षयोपदिशन्तो नाल्पीयांसमप्युपालम्भामर्हामः ॥ यदुक्तम् ॥
नेनिरीक्ष्य विषकण्टकसर्पकीयन् । सम्यग्यथा व्रजत तान् परिहत्य सर्वान् ॥ कुज्ञानकुश्रुतकृदृष्टिकुमार्गदोषान् सम्यग् । विचारयत कोत्र परापवादः ॥ इति वृत्तार्थः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org