________________
१४२
श्री सङ्घपट्टकः सूरिः श्रीजिनवल्लभोऽजनि बुधश्चान्द्रे कुले, तेजसा सम्पूर्णोभयदेवसूरिचरणाम्भोजालिलीलायितः ॥ चित्रं राजसभासु यस्य कृतिनां कर्णे सुधां दुर्दिनं तन्वाना विबुधैर्गुरोरपि, कवेः कैर्न स्तुताः सूक्तयः ॥१॥ .
हित्वा वाङ्मयपारदृश्वतिलकं यं दीप्रलोकम्पृणप्रज्ञानामपिरञ्जयन्ति गुणिनां चित्राणि चेतांस्यहो । लुण्टाक्य श्च्युततंद्रचन्द्रमहसामद्याप्यविद्यामुषः
कस्यान्यस्य मनोरमा सकलदिक् कूलंकषाःकीर्तयः ॥२॥ माधर्यशार्करितशर्करयारयाद्यं, पीयुषवर्षमिव तर्कगिरा किरन्तम् ॥ विद्यानुरक्तवनिताजनितास्यलास्यं, हित्वाऽपरत्र न मनो विदुषामरंस्त ॥३॥
जज्ञे श्रीजिनदत्तयत्यधिपतिः शिष्यस्ततस्तस्य यः, सिद्धान्ताद्विविधिपारतन्त्र्यविषयाभिख्यामभिख्यान्वितः ॥ आसाद्य त्रिपदी विधुर्बलिमिव व्यध्वं वृषध्वंसनं ॥ चिच्छेद प्रतिपन्थिनं सुमनसां व्यक्तक्रमप्रक्रमः ॥४॥
लावण्यावसथो यथा पतिरपां नो पर्वतक्षोभितः श्रृंगीव धुसदां सुवर्णसुभगो नोच्चैः सुरागाश्रयः ॥ यः कल्पद्रुरिव द्रुतापितफलो नोद्यत्सदापल्लवः, साम्यं यस्य तथापि शस्ययशसस्तैः कुर्वते बालिशाः ॥५॥
तस्य श्रीजिनचन्द्रसूरिरभवच्छिष्यावतंसस्ततो धाम्ना येन वितन्वता कुवलयामोदं बुधानन्दिना ॥ सर्वस्याः सुभगं भविष्णुमवनेः शुक्लद्वितीयेन्दुवत्के नो मंक्षुदिदृक्षवस्तनुकलमौन्मुख्यमापादिताः ॥६॥ _ विश्वत्रयेप्यजय्यश्रीमदनेकान्तहृद्यया सूक्त्या ॥ वरवर्णिन्याप्रीयतयस्य जनो भवविलासिन्या ॥७॥ __ अन्तःसंसदमर्ककर्कशलसत्तर्कक्ष्णुतव्याहृतिसृक्पावादुकगर्वचर्वणचणप्रखन्मनीषाजुषः ॥ शिष्यस्तस्य यतीश्वरो जिनपतिर्जग्रन्थ सग्रन्थधीपॅथत्याग्यपि सङ्घपट्टविवृत्तिं स्पष्टाभिधेयामिमाम्
॥८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org