SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ विभाग-१, बृहद्वृत्तिः १३७ क्रमादिक्रियाकाण्डं येषां ते तथा ॥ तथा अनेन पदद्वयेन ज्ञानक्रियानयानुगामित्वं तेषां निवेदितम् ॥ तत्प्रधानत्वाहीक्षायाः केवलयोरनिष्टफलत्वाभिधानेन समुदितयोरेव तयोः पङ्ग्वन्धयोरिवेष्टफलसाधकतया तैरिटत्वात् ॥ यदाह ॥ हयं नाणं कियाहीणं हया अन्नाणओ किया ॥ पासंतो पंगुलो दलो धावमाणो य अंधओ ॥ संजोगसिद्धीए फलं वयंति, न हु एगचक्केण रहो पयाइ ॥ अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा॥ एवंरूपा अपि कुतोपि कदाग्रहगरलोद्गारादुत्सूत्रं प्रज्ञापयिष्यन्तीत्यत आह ॥ शुद्धमार्गप्रकटनपटवः ॥ यथार्थश्रुतपथप्रकाशनचतुराः ॥ अणीयसोप्युत्सूत्रपदस्य दारुणं विपाकं विदन्तः कथमपि ते तन्न वदन्तीत्यर्थः ॥ अत एव कथञ्चित् कर्मदोषाच्चरणकरणालसेनापि शुद्ध एव मार्गः प्ररूपणीयः॥यदुक्तम् ॥ हुज्ज हु वसणप्पत्तो, शरीरदुव्वलयाइ असम्मत्थो। ___ . चरणकरणे असुद्धोसुद्धं मग्गं परूविज्जा ॥ तथाविधस्यापि शुद्धपथप्ररूपणात् प्रेत्य बोधिप्राप्त्या कथञ्चित्संसारपारावारनिस्तारात् ॥ अशुद्धपथप्ररूपकस्य दुष्करक्रियाकारिणोप्यमुत्र बोधिहत्यानंतभवनिवर्तनात् ॥अत एव तादृशस्य दर्शनमात्रमपि श्रुते निवारितम् ॥ यदाह ॥ ... उमग्गदेसणाए, चरणं नासंति जिणवरिंदाणं । वावन्नदंसणा खलु, नहु लप्भा तारिसा दटुं॥ अतः शुद्धपथमेव ते प्रथयन्ति ॥ एत एव प्रास्तमिथ्याप्रवादाः स्वपक्षे निराकृतोत्सूत्रोच्चावचवक्तव्यताः परपक्षे तु निरस्तप्रावादुकमताः ॥ वन्द्या यथार्ह द्वादशावर्त्तवन्दनादिना प्रणमनीयाः ॥ सत्साधवः सुविहितयतयः ॥ अस्मिन् जिनशासने दुष्षमाकाले वा ॥ यदुक्तम् ॥ तेयबलकालदेसाणुसारिपालियविहारपरिहारा । इसिसदोसत्ते विहु, भत्तीबहुमाणमरिहंति ॥ नियमो द्रव्याद्यभिग्रहः शमः कषायनिग्रहः दम इन्द्रियवशीकारः औचित्यं सर्वत्र योग्यतानुसारेण विनयादिप्रयोक्तृत्वं, गांभीर्यमलक्ष्यहर्षदैन्यादिविकारत्वम् ॥ यदुक्तम् ॥ यस्य प्रभावादाकाराः, क्रोधहर्षभयादिषु । भावेषु नोपलक्ष्यन्ते, तद्गाम्भीर्यमुदाहृतम् ॥ ... धैर्यं विपत्स्वपि चेतसोऽवैक्लव्यं स्थैर्यं विमृश्यकार्यकारित्वम् । औदार्यं विनेयादीना Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy