________________
१३६
श्री सङ्घपट्टकः ॥ यदाह ॥ केसिंचि आएसो, दसणनाणे हि वट्टए तित्थं ॥ वुच्छिन्नं च चरित्तं, वयमाणे भारिया चउरो ॥ असद्ग्रहात्तदनिच्छतश्चसङ्घबाह्यत्वप्रसङ्गात् ॥ यदुक्तम् ॥
जो भणइ नत्थि धम्मो, नय सामइयं न चेवय वयाई ।
सो समणसङ्घबज्जो, कायव्वो समणसङ्ग्रेण ॥ - तस्मात्सन्त्यद्यापि विरलाः प्राग्वर्णितगुणा मुनयः ॥ यदाह ॥ तो भासरासिगहविहु रिएवि तह दक्खिणेवि इह रिरन्ने ॥ अत्थि चिय जा तित्थं, विरलतरा केइ मुणिपवरा ॥ इतिवृत्तार्थः ॥३६॥
तदेवं दुःषमायामपि सुविहितयतिसत्तां व्यवस्थाप्य सांप्रतं सामान्यविशेष-गुणवत्तया तेषामेव वन्दनीयतां प्रदर्शयन्नाह ॥
॥ मूलकाव्यम् ॥ संविग्नाः सोपदेशाः श्रुतनिकषविदः क्षेत्रकालाद्यपेक्षा, नुष्ठानाः शुद्धमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः। वन्द्याःसत्साधवोऽस्मिन्नियमशमदमौचित्यगाम्भीर्यधैर्य, स्थैर्योदार्यार्यचर्याविनयनयदयादाक्ष्यदाक्षिण्य पुण्याः ॥३७॥ टीका:-वन्द्याः सत्साधवोऽस्मिन्निति सम्बन्धः ॥ संविग्ना मोक्षाभिलाषुकाः भवभीरवों वा ॥ नतु परलोकवैमुख्येनेहलोकप्रतिबद्धाः ॥ एवंविधा अपि स्वनिस्तारका एव भविष्यन्ति ॥ तथा च किं तैरित्यत आह ॥
सोपदेशाः धर्मदेशनातत्पराः नत्वालस्यसातशीलत्वादिना तद्विमुखाः तं विना भव्योपकाराभावात्तस्य चावश्यं यतिना विधेयत्वात् ॥ अन्यथात्मंभरित्वमात्रप्रसङ्गात् ॥ यथा कथञ्चित् तद्भवमुक्तिगामुकेनापि कृतकृत्येन भगवता भविकोपचिकीर्षया तदादरणात् ॥ ___ ग्लानादिनाप्याचार्येण धर्मव्याख्यानमवश्यंकर्तव्यमित्यागमेऽभिधानाच्च ॥ यदाह ॥ दोचेव मत्तगाइ, खेले काइयसदो सगस्सुचिए ॥ एवंविहोवि निचं वक्खाणिज्जत्ति भावत्थो ।
श्रुतनिकषविदः आगमरहस्यनिपुणाः ॥ एतेन गीतार्थतया धर्मकथाधिकारित्वमाह ॥ अगीतार्थस्य तदयोगात् ॥ यदाह ॥ कुसुमयसुईणमहणो वि विबोहओ भवियपुंडरीयाणं ॥ धम्मोजिणपन्नतो, पकप्पजइण कहेयव्वो॥
एवंविधा अपि स्वयं क्रियाशिथिला भविष्यन्तीत्यत आह ॥ क्षेत्रकालाद्यपेक्षं अस्मिन् क्षेत्रे अमुष्मिन् काले आदि शब्दाच्छरीरबलादिग्रहः ॥ एवंविधे च बले सति विधीयमानमेतदनुष्टानमस्माकमात्मसंयमशरीरयोरबाधकं भवीष्यतीति देशसमयबलानुसार्यनुष्ठानं विहार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org