________________
विभाग-१, बृहद्वृत्तिः
१३५
शैथिल्याः सिद्धान्ताध्ययनादिविरहिता वा गृहस्थच्छन्दोऽनुवति विना निःस्पृहतया शुद्धं प्ररूपयन्तो वा एतत्कृतनिर्वाहाभावेन कथं वयं जीविष्याम इत्याद्यध्यवसाय इत्यर्थः ॥ च मदश्चेत्यादि द्वन्द्वः ॥
तैर्महासत्त्वानां हि स्वजनधनपुत्रकलत्रादिसङ्गत्यागेन प्रव्रज्याग्राहिणां कुतस्त्यो गृहस्थादिषु ममताद्यवकाशः क्लीबानामेव तद्भावात् ॥ एवं च सति ममतादिभिर्वर्जिताः ॥ तथा संक्लेशः अविछिन्नप्रवाहतया प्रतीयमानो रौद्राध्यवसायस्तस्य आवेशः आवेगः उत्कर्षो येषामिति व्यधिकरणो बहुव्रीहिः तथा येन भवन्ति ॥ संज्वलनकषायोदयत्वेन तेषां तन्निबन्धनप्रथमादिकषायोदयाभावात् ॥
न कदभिनिवेशाः अनाभोगादिना अन्यथाकारं स्वयं प्रज्ञप्ते अभ्युपगते वा वस्तुनि कुत्सितमानसाग्रहवन्तो ये न भवन्ति तन्निमित्तजनरञ्जनापरिणामाभावात् ॥ ममताजीवनभयादयश्च साधुत्वबाधकत्वाद्यतीनां सर्वथा हेया एवेत्यतस्तेषामिह निषेधो विशेषण प्रदर्शितः ॥ यदुक्तम् ॥
एवं च संकिलिट्ठा, माइट्ठाणंमि निच्च तल्लिच्छा । आजीवियभयघत्था, मूढा नो साहूणो नेया ॥
य एवं गुणगणोपेतास्ते यतयः साधवः अद्यापि सुसाधुविरहितयाशङ्किते दुःषमाकालेपि आस्तां दुषमसुषमादावित्यपि शब्दार्थः स्युर्भवेयुः इह प्रवचने सूत्ररतयः सिद्धान्ताध्ययनाध्यापनव्याख्यानश्रवणपरायणाः अध्ययनादिकर्त्तव्यताविषयतयैव तेषां शास्त्रीयशिक्षाश्रवणात् ॥
॥ यदुक्तम् ॥ शास्त्राध्ययने चाध्यापने च सञ्चिन्तने तथात्मनि च ॥ धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥ न तु लिङ्गिन इव प्रव्रज्यादिनमारभ्य व्यवहारमन्त्रादिप्रयोगतत्पराः ॥ एतेन तेषामुन्मादाद्यभावः प्रतिपादितः ॥ महात्मनां सूत्राद्यध्ययनादेरेवं फलवत्त्वात् ॥ एतेन सन्त्येव सम्प्रति यथोक्तलक्षणभाजो यतयोऽदर्शनादित्यादि यदाशङ्कितं तदपास्तम् ॥
कालादिदोषात् प्रायशस्तथाविधयतीनामदर्शनेपि क्वापि तेन सन्तीत्यनाश्वासस्यकर्तुमयोग्यत्वात् ॥ यदुक्तम् ॥
काला दोसओ कहवि, जइवि दीसन्ति तारिसा न जई । सवत्थ तहवि नत्थित्ति नेव कुज्जा अणासासं ॥
आतीर्थमागमे बकुशकुशीलानामनुवृतिश्रवणात् ॥ यदाह ॥ न विणा तित्थं नियंठेहिं नातित्थं य नियंछ्या ॥ छक्कायसंजमो याव ताव अणुसज्जणादुण्हमिति ॥ बकुशकुशीलयोरनुवृत्तिरिति तत्र • व्याख्यानात् ॥ तथा च ज्ञानदर्शनाभ्यामेव सम्प्रति तीर्थमिति ब्रुवाणस्य भवतः प्रायश्चित्तापत्तेः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org