________________
१३४
श्री सङ्घपट्टकः टीका:-तथेति यथा सम्प्रति भूयांसो लिङ्गिनः सन्ति तथा तेन प्रकारेण विरलाः सुविहिता अपीत्येतदेवाह ॥ तेद्यापि स्युरिह यतय इति सम्बन्धः ॥आम्नायो गुरुशिष्यप्रतिशिष्यादिक्रमेण सम्प्रदायः सावद्यः प्राग्वर्णितौदेशिकभोजनाद्युपभोगादेः सपाप आम्नायो येषां ते तथा नजा तेषां निषेधः ॥ अधुनातनरुढ्यौदेशिकभोजनचैत्यवासादिना सावद्यसम्प्रदायवन्तो येन भवन्ति तथा ॥
बकुशं शबलमतिचारपङ्केन समलं प्रक्रमाच्चारित्रम् ॥ ततश्च बकुशचारित्रयोगात्साधवोपि बकुशाः ॥ ते च द्विधा ॥ उपकरणदेहभेदात् ॥ तत्रोपकरणबकुशा ये वर्षाप्रत्यासत्तिमन्तरेणापि कदाचिद्वस्त्रादिकं धावन्ति श्लक्ष्णाद्यंशुकादि च जिघृक्षन्ति कदाचित् परिदधते च ॥
पात्रदण्डकाद्यपि घृष्टं तैलादिम्रक्षणोत्पादिततेजस्कं च धारयति ॥ उपकरणमप्यतिरिक्तं प्रार्थयन्ते इति ॥ देहबकुशास्तु ये करचरणनखादीन् कदाचिन्निनिमित्तं भूषयन्तीति ॥ इमे च द्विविधा अपि शिष्यादिपरिवारादिकां विभूतिं तपःपाण्डित्यादिप्रभवं च यशः प्रार्थयन्ते तदासादनेन च प्रमोदन्ते छेदाहश्चातिचारैर्बहुभिः शबलिता अपि कर्मक्षयार्थमुद्यता इत्यादि लक्षणयुक्ता बकुशाः ॥ यदुक्तम् ॥ उपकरेणदेहचोक्खा इट्वीरसगारवासिया निच्चं ॥ बहुसबलछेयजुत्ता निग्गंथा बाउसा भणिया ॥
तथा कुत्सितं शीलं चरणं येषां ते तथा ॥ तेपि द्विधा ॥ आसेवनाकषायभेदात् ॥ तत्रासेवनाकुशीला ये ज्ञानदर्शनचारित्रतपांसि किञ्चिदुपजीवन्ति कषायकुशीलास्तु ये क्रोधादिभिः कषायैर्ज्ञानादिगुणान् युञ्जन्ति अथवा कषायैर्ज्ञानादीन् ये विराधयन्ति ॥ भवोच्छेदायोपस्थिता अपीत्यादि लक्षणभाजश्च कुशीला इति ततो बकुशाश्च कुशीलाश्चेति द्वन्द्वः ॥
तेषामुचिता योग्या यतिक्रिया प्रत्युप्रेक्षाप्रमार्जनप्रभृतिका साधुसमाचारी तया मुक्ता रहिता ये न भवंति ॥ प्रत्यहं यतिकृत्यं पडिलेहणा पमज्जणा, भिक्खिरिया लोय भुंजणा चेव ॥ पत्तगधुयण वियारा थंडिलमावस्सयाइयेत्यादि ॥ दशविधचक्रवालादिसामाचा चारीचारिण इत्यर्थः ॥
अत्र च पुलाकनिग्रंथस्नातकपरिहारेण यद्वकुशकुशीलोचितक्रियायुक्तयतिगवेषणं तत्तैरेव सर्वतीर्थकराणां तीर्थप्रवृत्तेः सव्वजिणाणं जरा, बकुशकुशीलेहिं वट्टए तित्थ मितिवचनात् ॥ तथा न युक्ता न स्पृष्टा मदो जात्यादिभिरात्मोत्कर्षप्रत्ययः ममता गृहस्थादिषु प्रतिबन्धो ममैते योगक्षेमं वहन्ति ततो यद्यमीषां क्वाप्यनिष्टं न संपद्यते इत्यादि स्नेहेन तत्सुख दुःखाभ्यां यतेरपि तद्वत्तेति यावत् ॥
आजीवनं आजीविका निर्वाहस्तस्माद् भयं तद्भावसंभावनया भीतिर्गृहिभिर्विदित
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org