________________
विभाग-१, बृहद्वृत्तिः
१३३
ततश्च दुरध्वदुरध्ववर्त्तिनोरभेदोपचारादित्थमुपन्यासः ॥ अस्मिन् प्राग्वर्णितस्वरूपे दुरध्वे कुमार्गे कारुण्यात्मा स्मामी बुडन् जडा अस्मिन् कुपथपङ्क इतिदयाध्यवसायात् यःकश्चिन्महासत्त्वो नृषु लिङ्गिभावनाभावितेषु मर्त्येषु कुबोधं कुदेशनोत्पादितमसत्पथेऽपि सत्पथभ्रमं निरसिसिषुर्बिभित्सुः ॥ यदि हि कथञ्चिदमीषां मूढानां दुरध्वदोषसामस्त्यप्रदर्शनेनायं कुबोधो विध्वंसते तदामी उपकृता भवन्तीत्याशयेन दोषसंख्यां दूषणेयत्तां विवक्षेत् अभिधित्सेत् ॥
एतावत् सङ्ख्या अत्र कुमार्गे दोषाः सन्तीति यो वक्तुमिच्छेदित्यर्थः ॥ स पुमान् अम्भोजलं अम्भोधेरर्णवस्य प्रमित्सेत् ॥ इयदत्राम्भ इति चुलुकादिभिः सञ्चिख्यासेत् ॥ जलधिजलप्रमित्सानिदर्शनेन दुरध्वदोषाणामसंख्येयतासिद्ध्या अपरितुष्यन् विवक्षिततदानन्त्यचिख्यापयिषया निर्दर्शनान्तरमाह ॥
सकलगगनोल्लङ्घनं पद्भ्यां समग्रान्तरिक्षान्तप्रापणं वेति पक्षान्तरे विधित्सेत् चिकीर्षेत् ॥ अयं च निदर्शना नामालङ्कारः ॥ यत्र प्राकरणिकाप्राकरणिकयोः परस्परं सम्बन्धाभावादुपमायां पर्यवसानं सा निदर्शनेति तल्लक्षणात् ॥
॥ यदुक्तम् ॥ अभवद्वस्तुसम्बन्ध उपमापरिकल्पक इति तदत्र प्राकरणिकाप्राकरणिकयोर्दुरध्वदोषदोषसङ्ख्याविवक्षणजलधिजलप्रमित्सयोर्दुरध्वदोषसङ्ख्याविवक्षणसकलगगनोल्लङ्घनविधित्सयोर्वा पृथक्पृथग्विषयत्वादन्योन्यासम्बद्धयोरुपमायां पर्यवसानम् ॥ सागराम्भः प्रमित्सेव च सकलगगनोल्लङ्घनविधित्सेव वा प्रकृतपुरुषेण दुरध्वदोषसङ्ख्याविवक्षा ॥
ततोऽयमर्थः ॥ यथा सागराम्भोऽतिभूयस्त्वात् प्रमातुमशक्यं सकलगगनोल्लङ्घनं वानन्त्याद्विधातुमशक्यं तथा दुरध्वस्य महामिथ्यात्वरूपस्य लोकोत्तरविरुद्धासमञ्जसचेष्टितशतसहस्त्रसंभृतत्वात्तद्दोषसङ्ख्याप्यतिबाहुल्याद्वक्तुमशक्येति ॥ अतो दिग्मात्रमेवोदाहृतम् ॥ तावन्मात्रेणापि केषाञ्चित् पुण्यात्मानां मोहापोहेन सत्पथाभ्युपगमो भविष्यतीति धियेति वृत्तार्थः ॥ ३५ ॥
• ननूक्तन्यायेन लिङ्गिनश्चेद्यतयो न भवन्ति ॥ तर्हि न सन्त्येव क्वचित्सम्प्रतिश्रुतोक्तलक्षणभाजो यतयोऽदर्शनात् ॥ तथा च ज्ञानदर्शनाभ्यामेव भगवतीर्थमनुवर्त्तत इति मन्यमानं मूढं प्रति लिङ्गिभ्यः पक्षान्तरसंसूचकेन तथा शब्देनान्तरापूर्य सम्प्रति वर्त्तमानतया कालोचितयतिलक्षणलक्षितान् सुविहितयतीन् प्रतिपादयन्नाह ॥
॥ मूलकाव्यम् ॥ 'न सावद्याम्नाया न, बकुशकुशीलोचितयति, क्रियामुक्ता युक्ता, न मदममताजीवनभयैः ।
न संक्लेशावेशा, न कदभिनिवेशा न कपट, प्रिया ये द्यापि स्युरिह, यतयः सूत्ररतयः ॥ ३६ ॥
For Personal & Private Use Only
Jain Education International
www.jalnelibrary.org