Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 168
________________ १४१ विभाग-१, बृहद्वृत्तिः प्रौढिंजग्मुषि मोहराजकटके लोकैस्तदाज्ञापरै, रेकीभूय सदागमस्य कथयापीत्थं कदर्थ्यामहे ॥४०॥ टीका:-मोहराजकटके प्रौढिजग्मुषि लोकैर्वयं कदामह इति सम्बन्ध ॥ संप्रत्यधुना प्रोज्जृम्भिते अभ्युदिते भस्मकम्लेच्छातुच्छबले ॥ भस्मराशितुरुष्काधिपसारसैन्ये अप्रतिमे तेजस्वितयाऽनन्यसाधारणे ॥ कुसङ्घ एवप्राक्वर्णितनिर्गुणसाध्वादिसमुदाय एव वपुः शरीरं स्वरुपं यस्यतत्तथा ॥ तस्मिन् भस्मकम्लेच्छस्य हि दुःसङ्घ एव स्वसैन्यम् ॥ ततो यथा म्लेच्छोऽश्वादिसाधनेन परजनपदमभिभवति एवं भस्मकोपि प्रबलदुःसङ्घबलेन भगवच्छासनमालिन्योत्पादनेन तिरस्कुरुते ॥ तथा दुरन्तदशमाश्चर्ये दुष्टा संयतपूजाख्यान्त्याश्चर्ये चः समुच्चये विस्फूर्जति प्रभविष्णौ ॥ एवं च सति प्रौढिं स्फातिं जग्मुषि मोह एव मिथ्याज्ञानमेव लिङ्गिप्रज्ञप्तसंसार मार्गस्यादिकारणत्वादतिदुर्जयत्वाद्रागादिप्रभवत्वाच्च राजा पार्थिवस्तस्य कटके अनीके ॥ प्रागुक्तस्य भस्मकादेः सर्वस्यापि मोहराजपरिच्छेदभूतत्वेन तत्कटककल्पत्वात् ॥ अयमर्थः ॥ मोहो हि दुष्टमौलराजकल्पस्तस्य च दुःसङ्घलक्षणचतुरंगबलकलितो भस्मको म्लेच्छाख्यमहासामंतकल्पः ॥ दशमाश्चर्यं तु स्वत एवातिप्रबलत्वात्साहायान्तरनिरपेक्षमेव द्वितीयमहासामन्तप्रख्यम् ॥ ___ ततो यथा कश्चिन्महाराजाधिराजो म्लेच्छादिमहासामन्तैर्भूमण्डलं साधयति तथा अयमपि मोहराजो भस्मकादिभिर्जिनशासनमभिभवतीति ॥ ततो लोकैः कुसङ्घजनैः तदाज्ञा-परैर्मोहराजशासनमनतिक्रामद्भिः मूढत्वादविमृश्यकारिभिरित्यर्थः एकीभूय दुष्टत्वेनैकमत्यं विधाय ॥ ___इत्थं सकलजनप्रतीतैराक्रोशतर्जनहीलादिभिः प्रकारैः राजवर्चसेन वयं कदामहे पीड्यामहे उपहन्यामह इत्यर्थः ॥ केन हेतुनेत्याह ॥ सदागमस्य लिङ्गिप्रथिन मिथ्यापथोत्पथत्वप्रतिपादकस्य शुद्धसिद्धान्तस्य कथयापि धर्मदेशनाद्वारा विचारमात्रेणापि ॥ यदि हि पक्षप्रतिपक्षपरिग्रहेण साधनदूषणोपन्यासैः प्रकृतविषये परैः सहवादमुपक्रमामहे ॥ ____॥ तदा न विद्मस्ते किमपि कुर्वीरन्नित्यपि शब्दार्थः ॥ तथा च वयं शुद्धसिद्धान्तविचार भव्येभ्योऽनुजिघृक्षयोपदिशन्तो नाल्पीयांसमप्युपालम्भामर्हामः ॥ यदुक्तम् ॥ नेनिरीक्ष्य विषकण्टकसर्पकीयन् । सम्यग्यथा व्रजत तान् परिहत्य सर्वान् ॥ कुज्ञानकुश्रुतकृदृष्टिकुमार्गदोषान् सम्यग् । विचारयत कोत्र परापवादः ॥ इति वृत्तार्थः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262