Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
१३२
श्री सङ्घपट्टकः प्रभावनानिमित्ततयाऽचिन्त्यपुण्यसम्भारकारणत्वेनाभिधानात्तज्जल्पनमवश्यं कर्तव्यमेव ॥ यदुक्तम् ॥
सुहसीलतेण गहिए, भवपल्लिं तेण जगडियमणाहे।
जो कुणइ कुवियत्तं, सो वन्नं कुणइ सङ्घस्स ॥ अतः कुपथपङ्कनिमज्जन्नरनिकरोद्धरणाय मया किञ्चिज्जल्पितमिदमितिसुष्टुक्तं भगवता प्रकरणकारेणेतिवृत्तार्थः ॥
अथ किमिति दिग्मात्रमेवाभिहितं यावता निःशेषदोषप्रकाशनेन हि मिथ्यापथः सुज्ञानः सुत्यजश्च भवतीत्याशक्य तन्निरासद्योतकेन यत इति पदेनान्तरापूर्य तद्दोषाणामानन्त्येनाभिधानाशक्यत्वं निदर्शनयाविर्भावयन्नाह ॥ यतः ॥ ..
॥ मूलकाव्यम् ॥ प्रोद्भूतेऽनन्तकालात् कलिमलनिलये नामनेपथ्यतोऽर्हन्, मार्गभ्रान्ति दधानेऽथ च तदभिमरे तत्त्वतोऽस्मिन् दुरध्वे । .: कारुण्याद्यः कुबोधं नृषु निरसिसिषुर्दोषसङ्ख्यां विवक्षे-,
दम्भोम्भोधेः प्रमित्सेत्स सकलगगनोल्लङ्घनं वा विधित्सेत् ॥३५॥ यत इति यस्माद्धेतोरस्मिन् दुरध्वेऽनन्तकालात् प्रोद्भुते यो दोषसङ्ख्यां विविक्षेदित्यादि सम्बन्धः ॥ तत्र प्रोद्भूते सञ्जाते अनन्तकालात् अनन्तानेहसा अनन्तोत्सर्पिण्यवसर्पिणीपरिवर्तनेनास्यकुमार्गस्याश्चर्यदशकान्त:पातित्वेन सिद्धान्ते प्रादुर्भावप्रतिपादनात् ॥
कलिमलनिलये दुष्षमापातकनिवासे दुष्षमाकालोह्यपरकालापेक्षया महापापः ॥ ततश्चात्रातीवासमंजसप्रवृत्तिदर्शनात्संभाव्यते सकलं दुष्षमामलं दुरध्वेऽस्मिन्निवसति ॥ अथवा कलिरेवकलह एव मलं किट्टि तस्य निलये ॥ तथा नाम अभिधानं यथा लिङ्गदर्शनेपि लोका वक्तारो भवन्ति ॥ अमी जैना अमी सिताम्बरभिक्षव इत्यादि ॥
नेपथ्यं रजोहरणादिवेषस्ततो द्वन्द्वः ततश्च नामनेपथ्यतः सुविहितसाधारणानामश्रवणान्नेपथ्यदर्शनाच्चाऽर्हन्मार्गभ्रान्ति तात्त्विकजिनपथसादृश्यं दधाने बिभ्राणे ॥ नन्वयं पन्थास्तर्हि जिनमार्ग एव भविष्यतीत्यत आह ॥ .. अथ चेति प्रतिकूलपक्षान्तरद्योतकमव्ययम् ॥ नन्वतः परमार्थतः तदभिमरेऽर्हन्मार्गघातुके ॥ अयमर्थः ॥ यथाऽभिमराः प्रच्छन्नघातुकाः स्ववेषेण राजादिघातकर्तुमशक्नुवन्तो वेषपरावर्त्तनेन राजादिकं व्यापादयन्ति ॥ तथैतेपि गृहस्थवेषेणार्हन्मार्गच्छेदनं तथाविधातुमपारयन्तो यतिवेषेण विरुद्धप्ररुपणाचेष्टितादिनार्हन्मार्गमुच्छिन्दन्तीति भवन्त्यभिमराः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262