________________
श्री सङ्घपट्टकः
यदाह ॥ बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् ॥ इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ॥ ततश्च तद्वतां तद्युक्तानां दाम्भिकानां ह्यापातमधुरोपि वचनसन्दर्भः प्रलम्भनगर्भत्वेन परिणामे भूयोऽनर्थसंभारकारणत्वाद्विषायते ॥ तदुक्तम् ॥ पीयुषधारामिव दाम्भिकाः प्राग् प्रलम्भनीयां गिरमुद्गिरन्ति ॥ पुनर्विपाकेऽखिलदोषधात्री सैवातिशेते बत कालकूटम् ॥ अतस्तद्भाषितानि सुविहितैः सुश्रावकैश्च न श्रोतव्यानीति तात्पर्य मिति वृत्तार्थः ॥२७॥ अधुना वितथादिरुपधर्मदेशिनामपि तेषां कुपथस्य तथाविधमुग्धजनोपादेयतां सविषादं प्रतिपादयन्नाह ॥ ॥ मूलकाच्यम् ॥
१०८
यत् किञ्चिद्वितथं यदप्यनुचितं यल्लोकलोकोत्तरो, त्तीर्णं यद्भवहेतुरेव भविनां यच्छ्रास्त्रबाधाकरम् । तत्तद्धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मत, भ्रान्त्या लान्ति च हा दुरन्तदशमाश्चर्यस्य विस्फूर्जितम् ॥२८॥
तत्तदितिवीप्सायां सर्वसङ्ग्रहमाह ॥ धर्मसाधनमनुष्ठानमिह धर्मस्ततश्चधर्म इति सुकृतमिदमित्येवंरुपतया बुवन्ति वदन्ति कुधीयो दुर्मेधसो नाम जैनाः ॥ यत्किं इत्याह ॥ यत्किंचिदिति सामान्यतो निर्दिष्टं विशेषतोऽनिर्दिष्टनामकं वितथमलीकं श्रेणिकराजरजोहरणवंदनादि न ह्येतदागमे क्वचिल्लिखितमस्ति येन सत्यं स्यात् परं लिङ्गिनः स्ववन्द्यता ॥ पादनायै तदपि धर्म इति भाषन्ते ॥
यदाह ॥ श्रीश्रेणिकक्षितिपतिः किल सारमेयलाङ्गूलमूलनिहितं यतिवद्ववन्दे ॥ भक्त्या रजोहरणमित्यनृतं वदन्ति ही लिङ्गिनो वृषतया कुंधीयः प्रलब्धुम् ॥
तथा यदपि अपि समुच्चये यच्चानुचितमयोग्यम् ॥ पित्राद्युद्देशेन यात्राकरणादि धर्मनिमित्तं हि कृत्यजातं जिनमन्दिरे कर्तुमुचितं नान्यत् ॥ पित्राद्युद्देशेन तु यात्रादि तत्र विधीयमानं गुणबहुमानविकलकेवलस्नेहनिबन्धनत्वान्नधर्मः ॥ परं तदपि लिङ्गिनो धर्मोयमित्यभिधाय स्वोपयोगाय विधापयन्ति ॥ यदाह ॥ यात्रा: प्रतीत्य पितरौ भवताऽत्र चैत्ये यद्वात्र मासि विहिता धनिनामुना तत् ॥ कार्यास्त्वयापि च तथेति कथं गृहस्थे धर्मोऽयमित्यनुचितं रचयन्ति धूर्त्ताः ॥
तथा यल्लोको जैनमार्गबहिर्भूतः शिष्टजनः लोकोत्तरं जिनप्रवचनं ताभ्यामुत्तीर्णं बाह्यं सूतकगृहभिक्षाग्रहणादि एतद्धि लोकलोकोत्तरयो विरुद्धत्वान्न धर्मस्ते तु गार्ह्यादिहेतुनैतदपि धर्म इत्यभिदधति ॥ यदाह || भिक्षा सूतकमन्दिरे भगवतां पूजा मलिन्या स्त्रिया ॥ हीनानां परमेष्ठिसंस्तवविधेर्यच्छिक्षणंदीक्षणं ॥ जैनेन्द्रप्रतिमाविधापनमहो तल्लोकलोकोत्तर ॥ व्यावृत्तेरथ तुमप्य धिषणाः श्रेयस्तया चक्षते ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org