________________
विभाग-१, बृहद्वृत्तिः
१०९ तथा यद्भवहेतुरेव संसारकारणमेव भविनां देहिनां जिनमन्दिरे जलक्रीडादि ॥ एतद्धि मदनोद्दीपनत्वात् क्रीडामात्रत्वेनातात्त्विकत्वाच्च संसारवर्धनमेव परमतेदपि लिङ्गिनो धर्मछाना स्वावलोकनकुतूहलेन कारयन्ति ॥ यदाह ॥ श्रृंङ्गैः प्रसूनसमये जलकेलिलीला ॥ मान्दोलनं भगवदोकसि देवतानाम् ॥ धर्मछलालगुडरासमनल्पहासम् ॥ निर्मापयन्त्यहह संसृतिहेतुमज्ञाः ॥
तथा यत् शास्त्रबाधाकरं सिद्धान्तविरोधाधायकमौद्देशिकभोजनादि ॥यथाच्चौद्देशिकादीनां शास्त्रबाधितत्वं तथा प्रागेवोपपादितम्॥अथवा आषाढचतुर्मासकात्पञ्चाशत्तमदिन प्रतिपादितस्य पर्युषणापर्वणः श्रावणाद्याधिक्यवतिवर्षेऽशीति तमेऽह्नि विधानम् ॥
यदुक्तम् ॥ वृद्वौ लोकदिशा नभस्यनभसोः सत्यां श्रुतोक्तदिनम् ॥ पञ्चाशं परिहत्य ही शुचिभवात्पश्चाच्चतुर्मासकात् ॥ तत्राशीतितमे कथं विदधते मूढा महं वार्षिकम् ॥ कुग्राहाद्विगणय्य जैनवचसो बाधां मुनिव्यंसकाः ॥
ननु ब्रुवन्तु ते स्वमतिकल्पितं मार्ग तथापि वितथादिस्वभावत्वात्तं न कोपि ग्रहिष्यति तथा चोक्तोप्यनुक्तकल्पो लोकोपादानाभावेन प्रसराभावादित्यत आह॥मूढा अज्ञानिनः तत्र धर्मव्याजेन लिङ्गिप्ररूपितं मतम् अर्हन्मतभ्रान्त्या जैनमार्गोऽयमिति मिथ्याज्ञानेन लान्ति उपाददते ॥अयमर्थः॥ यथोभयगतचाकचिक्यादिसदृशधर्मोपलम्भात् परस्परव्यावर्त्तक देशजात्यादिभेदधर्मानुपलम्भाच्च . अरजतेऽपि शुक्तिकायां रजतमेतदिति धिया भ्रान्ताः प्रवर्त्तन्ते ॥
तथेहापिसन्मार्गासन्मार्गगतजिनदेवताभ्युपगमबाह्यावेषादिसमानधर्माऽवगमादन्योन्यव्यवच्छेदकविध्यविधिप्रवृत्त्यादिविशेषधर्मानवगमाच्च वितथत्वादिना वस्तुतोऽनर्हन्मतेपि प्रकृतमार्गेऽर्हन्मतमेतदितिबुद्ध्या मूढाः प्रवर्त्तन्त इति ॥ न केवलमेतत्कुमार्गं वदन्ति ॥ मूढास्तु तं गृह्णन्त्यपीति च शब्दार्थः ॥ हो इति विषादे ॥ ... दुरन्तदशमाश्चर्यस्य दुःखावसानान्त्याश्चर्यस्य विस्फूर्जितं विजृम्भितमेतदिति ॥ कथमन्यथा कुपथस्याप्येतस्य बहुमुग्धजनोपादेयता स्यादतः कष्टमेतद्यदद्याप्ययं कुमार्गोऽस्खलितप्रसरोऽनुवर्तत इति वृत्तार्थः ॥२८॥
साम्प्रतं मुग्धजनान् प्रति स्वमतं मोक्षपथतयादिशतःसत्पथगामिनश्च धार्मिकान् स्ववचनानुरोधित्वेनाज्ञतया अवजानानस्य कस्यचिद्यथाछन्दाचार्यग्रामण्योऽप्रस्तुतप्रशंसया स्वरूपमाह ॥
॥ मूलकाव्यम् ॥. कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः, कान्तारे प्रदिशत्यभीप्सितपुराध्वानं किलोत्कन्धरः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org