________________
११०
एतत्कष्टतरं तु सोपि सुदृशः सन्मार्गगांस्तद्विद, स्तद्वाक्याननुवर्त्तिनो हसति यत्सावज्ञामज्ञानिव ॥२९॥
टीका:-कष्टं दुःखमेतन्नश्चेतसि वर्त्तते यत्किमित्याह ॥ यदितिवाक्योपक्षेपे ॥ यत् नृणामदृशां जात्यन्धवैदेशिकः कान्तारेऽभीप्सितपुराध्वानं प्रदिशतीति सम्बन्धः ॥ तत्र नृणां पुंसां नष्टदिशां अलोचनत्वात्कान्तारपातेन दिग्मूढत्वाच्च प्रभ्रष्टप्राचीप्रतीच्यादिककुब्दिग्भागपरिच्छेदानाम् ॥ अदृशां काचकामलादिना दृग्विकलानां न तु जन्मान्धानाम् ॥ जात्यन्धो जन्माभिव्याप्त्या लोचनरहितः ॥
श्री 'सङ्घपट्टकः
ननु सोपि तद्देशजात इतरेभ्यः श्रवणादिना विज्ञाय कथञ्चिदिष्टपुरपथं देक्ष्यतीति तत्रोक्तं वैदेशिक इति ॥ विदेशे योजनशतव्यवहिते देशांतरे जातो वर्द्धितश्चेति वैदैशिकः ॥ स हि . . तद्देशस्वरुपमात्रस्याप्यनभिज्ञत्वात्कथं प्रकृतमार्गं जानीयादपि ॥ ततः कर्मधारयः ॥
कान्तारे जनसञ्चारशून्ये दुर्गवर्त्मनि लोकसञ्चारमार्गे हि कदाचित् मार्गभ्रान्तानां पान्थोपि संचरिष्णुः सुपन्थानं दर्शयेत् ॥ प्रकर्षेण अयमेवास्य पुरस्य पन्था नान्य इत्यवधारणपूर्वं न तु संभावनामात्रेण दिशति प्रतिपादयति अभीप्सितपुराध्वानं जिगमिषतनगरमार्गं किलेतिवार्त्तायां उत्कन्धरःउद्ग्रीवः कन्धरामुन्नमय्य भुजदण्डमुत्क्षिप्य कथयति न तु वचनमात्रेण ॥ किल मार्गोपदेष्टा तदभिज्ञो मार्गानुयोक्ता तु तदवभिज्ञो भवतीति लोकस्थितिः अत्र उपदेष्टाजात्यन्धत्वादिना सर्वथा प्रस्तुतपथं न जानाति अनुयोक्तास्त्वदृशोपि तद्देश्यत्वंपूर्वानुभूतानुसन्धानवत्त्वादिना तदभिमुखा इव लक्ष्यन्ते अतस्तदुपदिष्टपन्थाः कथमिष्टपुरगामुकः स्यादथ च स तमुपदिशतीति कष्टमेतत् ॥ तु पुनर्थे इदं वक्ष्यमाणं पुनः कष्टतरं पूर्वस्मादपि कष्टान्महत्कष्टं यत्किमित्याह ॥
सोपि प्रागुक्तो मार्गदेष्टा सुदृशो निर्मलनयनानत एव समार्गगान् इष्टनगर सुगमपथ प्रस्थितान् तद्विदः सम्यक् सन्मार्गज्ञान् यत् हसति स्मयते सावज्ञमिति क्रियाविशेषणं सावहेलम् ॥ अज्ञानिव मार्गानभिज्ञानिव यथा मार्गनभिज्ञा मार्गमुपदिशन्त उपहस्यन्ते लोकेन ॥ तथैते पि यथा किमेते बालिशा वायसा इवाजन्मानुज्जितस्वदेशा मार्गामार्गस्वरुपं विदन्ति ॥
Jain Education International
अहमेव शैशवादवेक्षितनिखिलजनपदो विदितसकलग्रामनगरसमाचारः सर्वं वेक्ष्मीति कुत एवं स तानुपहसतीत्यत आह ॥ तद्वाक्याननुवर्त्तिनो जात्यन्धवचनाननुरोधिन इति हेतुगर्भ विशेषणम् ॥ ते हष्टपुरस्य सम्यग्पन्थानं जानन्तस्तद्वाक्यं यमहं कथयामि स तन्नगरमार्ग इत्येवं रुपं नानुमन्यन्ते ॥ तथा च सरुष्टः संस्तानुपहसतीति ॥ एवं च स्वयं सर्वथाभीष्ट पुरपथमजानन्नपि यत्तज्ज्ञान् हसति ॥ तन्महाकष्टमित्यप्रस्तुतप्रशंसाभेदः ॥
For Personal & Private Use Only
www.jainelibrary.org