________________
विभाग-१, बृहवृत्तिः
१११ तथा ह्युपमानेन तुल्ये प्रस्तुते उपमेये सति यदप्रस्तुतस्योपमानस्य प्रस्तुततुल्यस्य प्रशंसनमभिधानमित्येतदस्य लक्षणं तुल्ये तुल्यस्य वच इति वचनात् ॥
एवं चाप्रस्तुतमुपमानं योजयित्वा प्रस्तुतमुपमेयमिदानी योज्यते ॥ कष्टमेतत् ॥ यन्नृणां सत्पथेच्छुपुरुषाणां नष्टदिशाम् अतिमुग्धतया सत्पथकुपथविभागानभिज्ञानाम् अदृशां सम्यग्ज्ञानदर्शनविकलानां जात्यन्धः सिद्धान्तरहस्यलेशानभिज्ञः सर्वथाऽगीतार्थः ॥ सोपि गीतार्थसंवासादैः कथञ्चिन्मोक्षपथकथनप्रवीणः स्यात्तत्राह ॥
वैदेशिको गर्हिताचारत्वादाजन्मागमनिकषविदुरगीतार्थमुनिपुङ्गवसङ्गमात्र-वर्जितः ॥ एष चाधुनिकदुःसङ्घप्रवरो निःशङ्ख निःश्रेयसपथप्रत्यर्थिमार्गप्रथनदीक्षितो यथाच्छन्द शिखामणिः कश्चिदाचार्यो मन्तव्यः ॥ कान्तारे महाटव्यां प्रदिशति अयमेव मदुपदिष्टो मोक्षमार्ग इति प्रज्ञापयति अभीप्सितपुराध्वानं मुक्तिमार्गम् उत्कन्धरो दर्शिताहङ्कारविकारः ॥ ___ तथा च सोऽगीतार्थ उत्सूत्रभाषक अभिनिवेशिकमिथ्यादृष्टिःकथञ्चिदपि सत्यं मुक्तिपथं न वेत्ति नाप्यन्येन गीतार्थेन प्रतिपादितोपि प्रत्येति ॥ नरास्तु मुक्तिपथपर्यनुचोक्तार आभिग्रहिकादिमिथ्यादृशस्तत्रापि किञ्चित्सन्मार्गाभिलाषुका उपदेष्टुरपेक्षया सारतरविभागेन किञ्चिदज्ञास्तथा च तत् प्रज्ञप्तोध्वा कथं तेषां मुक्तिपुरप्रापकःस्यात्तथापि स तेभ्यस्तं प्रदर्शयतीति भवति कष्टम् ॥
एतत्कष्टतरं त्विति पूर्ववत् ॥ सोपि प्रागभिहितो यथाछन्दाचार्यः सुदृशः सम्यग्ज्ञानदर्शनयुजः सन्मार्गगान् ज्ञानदर्शनचारित्रलक्षणमुक्तिपथप्रवृत्तान् तद्विदो मुक्ति मार्गाभिज्ञान् धार्मिकान् सुविहितसाधून् यत् हसति सावज्ञमज्ञानिव ॥ यथा किममी अगीतार्था मूर्खशिरोमणयः सिद्धान्तरहस्यमवस्यन्ति ॥ अहमेव सकलश्रुतपारावारपारदृश्वा ॥ ततोयमहं ब्रवीमि स मुक्तिमार्ग इति॥
किमित्येवमुपहसतीत्यत आह ॥ तद्वाक्याननुवतिनो यतस्ते गीतार्थाः । उत्सूत्रं मुक्तिपथप्रतिपादकं तद्वाक्यं नानुरुध्यन्त इति ॥ अत एव दुःषमासमयजिनशासनभविष्य दशुभभावसूचकदुस्वप्नाष्टकान्तःस्थवानरफलं विवृण्वता हरिभद्रसूरिणाभिहितम् ॥
बहु बानरमज्झगया-तव्वसहा असुइणा विलिपंति । अप्पाणं अन्नेविय तहाविहं लोगहसणं च ॥ विरलाए मलिंपणाया, तदन्नखिसा न एयमसुइत्ति ।
मुनिणो यं एयस्सउ, च्चिवागमो नवरमायरिया ॥ किल कस्यचित् पार्थिवस्य स्वदृष्टस्वप्नफलं पर्यनुयुञ्जानस्य भगवान् श्रीमहावीरः समादिदेश ॥ मयि मुक्तिमुपेयुष्याचार्या एवंविधा भविष्यन्ति ॥ यथा चापलादिना वानर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org