________________
श्री सङ्घपट्टकः
यूथाधिपकल्पा आचार्या बहवः पुरीषतुल्योत्सूत्रप्ररूपणेनात्मानं पार्श्ववर्त्तिनश्चधेक्ष्यन्ति ॥ विरलतराश्च तन्मध्यान्नात्मानं नाप्यन्यानुत्सूत्रेण लेप्स्यन्ति ॥
११२
तथा चात्मानमुत्सूत्रेणादिहानांस्तानवलोकते हसिष्यन्ति ॥ अहो एते बालिशाः शुद्धसिद्धान्तदेशनामलयजरसेन सुरभिणाऽनेन नात्मानं चर्चयन्तीति ॥ तदेतेषां यथोक्तागमार्थभाषकगीतार्थोपहसनं कुलधर्मः ॥ एवं च यत् स्वमगीतार्थनिलयोपि गीतार्थानवमन्यते सम्प्रतितनरुढ्या तन्महाकष्टमित्युपमानोपमेययोस्तुल्यतया योजना ॥
अत्र च मुग्धजनपुरतो निरङ्कुशं स्वकल्पितं चैत्यावासादिकमुत्सूत्रपथं प्रथयन् विधिविषयपारतन्त्र्यप्ररूपणानिपुणान् सुगुरुसम्प्रदायवर्त्तिनः सुविहितानसूययोपहसन् सम्प्रति वर्तमानः कुसङ्ग्राचार्यवर्गोऽनया भङ्ग्या कविना प्रतिपादित इति वृत्तार्थः ॥२९॥
साम्प्रतं श्रुतपथावज्ञाद्वारमुपसञ्जिहीर्षुः शुद्धजिनमार्गस्य दुष्टोपचितसमुदितकारणकलापेन सम्प्रति दुर्लभत्वं प्रतिपादयन्नाह ॥
॥ मूलकाव्यम् ॥ सैषा हुंडावसर्पिण्यनुसमयहृसद्भव्यभावानुभावा, त्रिंशश्चोग्रग्रहोऽयंखखनखमितवर्षस्थितिर्भस्मराशिः । अन्त्यं चाश्चर्यमेतज्जिनमतहतये तत्समा दुःषमा चेत्येवं पुष्टेषु दुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥३०॥
या आगमग्रन्थेष्वागामितया लिखिताकर्ण्यते सा एषा सम्प्रतिकालस्याप्रत्यक्षत्वेपि तदुद्भवकार्याणां प्रत्यक्षोपलम्भेनोपचारादेषेत्युक्तम् ॥ अवसर्पन्ति प्रतिक्षणमायुशरीरप्रमाणादयो भावा हानिं गच्छन्ति प्राणिनामस्यामित्यवसर्पिणी सिद्धान्तप्रसिद्धः कालविशेष: हुण्डं सकलाङ्गोपाङ्गानां यथोक्तमानवैकल्यहेतुः षष्टं संस्थानं तेनोपलक्षिता अवसर्पिणी हुण्डावसप्पिणी व्युत्पत्तिमात्रं चेदम् ॥
तत्त्वतस्त्वनन्ततमकालभाव्य संयतपूजानिबन्धनं चैत्यवास्युत्पादहेतुः शुभभाव- हानिकारणं कालभेदो हुण्डावसर्पिणी ॥ सा च भगवति मोक्षं गते जातेति ॥ समयः परमसूक्ष्मः कालस्ततश्चानुसमयं प्रति भव्यानां मुक्तिगामिनाम् अथवा भव्याः शुभा भावा: परिणामा अनुभावाश्च प्रभावा मतिनिश्चया वा ततश्च हसंतो हीयमाना भव्यभावानुभावा यस्यां सा तथा ॥ हुण्डावसर्पिण्यां हि कालस्वाभाव्याद्धर्मार्थिनामपि प्रायेण भावा यादृशा वर्त्तमानक्षणेन न तादृशाः क्षणान्तर इत्यादिक्रमेण प्रतिक्षणं संक्लेशतारतम्याघ्राततयोपजायमाना उपलभ्यन्ते ॥
तथा च प्रकरणकारेणैव प्रकरणान्तरे प्रदर्शितम् ॥ कालस्स अइकिलिट्ठत्तणेण अइसेसि -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org