________________
११३
विभाग-१, बृहद्वृत्तिः पुरिसविरहेण ॥ पायम जुग्गत्तेणय, गुरुकम्मत्तेणय जियाण ॥ किर मुणियजिणमया बिहु, अङ्गीकयसरिसधम्ममग्गावि ॥ पायमइसंकिलिट्ठा, धम्मट्ठी वित्थ दीसन्ति ॥
अत्र च हुसदित्यनेन संयोगपरत्वेपि पूर्ववर्णस्य न गुरुत्वं ॥ छन्दः शास्त्रे व्यवस्थितयानुवृत्त्या क्वचित्तन्निषेधात् ॥ ___ तथा त्रिंशः जिनसिद्धान्तोक्ताष्टाशीतिग्रहमध्यात्रिंशतः पूरणः ॥ चः समुच्चये ॥ उग्रग्रहो जिनप्रवचनस्योदग्रोपसर्गवर्गकारित्वाद्दारुणो ग्रहः ॥ अयमेष प्रत्यक्षोपलभ्यमानकार्यो भस्मराशिनामा खमाकाशं तस्य च शून्यत्वात्खमिति गणितव्यवहारे शून्यबिन्दोः संज्ञाः ॥ नखाइति च विंशतेः संज्ञा ॥ नखानां विंशतिसङ्ख्यत्वात्ततश्च खं च खं च नखाश्चेति द्वन्द्वः ॥ तैः पश्चानुपूर्व्या अंकरचनया स्थापितैमितानि परिसङ्ख्यातानि वर्षाणि संवत्सराः स्थितिरेकस्मिन् राशाववस्थानं यस्य स तथा ॥ एकराशौ वर्षसहस्त्रद्वयस्थितिक इत्यर्थः ॥
स हि ग्रहो भगवनिर्वाणकालानन्तरं वर्षसहस्त्रद्वयं यावत् क्रूरत्वाद्भगवज्जन्मराशी संक्रान्तत्वाद् भगवन्तं च मुक्तत्वेन दुःखीकर्तुंमशक्तत्वात्तत्पक्षतयैव प्रवचनस्य बाधां करिष्यति ॥
दृश्यते च लोकेपि कश्चित् कस्यचित्स्वप्रतिपक्षस्य किञ्चिदपकर्तुं न पारयन्नेतदपकारेणापि तस्यापकृतं भविष्यतीति मूढतया मनसि निधाय तत्पक्षं तत्सदृशं चापकुर्वाणः ॥ ॥ यदुक्तम् ॥
त्वं विनिर्जितमनोभवरुपः, सा तु सुन्दर भवत्यनुरक्ता।
पञ्चभिर्युगपदेव शरैस्तां, ताडयत्यनुशयादिव कामः ॥ तथा ॥ यस्य किञ्चिदपकर्तुमक्षमः, कायनिग्रहगृहीतविग्रहः ॥ कान्तवक्त्रस-दृशाकृति कृती, राहुरिंदुमधुनापि बाधते ॥
तथा अन्त्यं दशमं च पूर्ववत् आश्चर्यम् अनन्तमकालभावित्वाद्भुतमसंयतपूजाख्यम् एतत् इदानीं प्रत्यक्षं जिनमतहतये आहेतप्रवचनापभ्राजनापादनाय ॥ तत्समानैः प्रागुक्तैस्त्रिभिः समा तुल्यबला दुषमा दुष्टाः लोकदुःखकारिण्यः समा वर्षाणि यस्यां सा तथा ॥
कालचक्रस्य षडरकस्य पञ्चमोऽरकः यथा प्राक्तनास्त्रयः समुदिता जिनमतं निम्नन्ति तथा चतुर्थी दुषमापि ॥
॥ यदुक्तम् ॥ उत्कर्षवत्पुरुषसिंहवियोगतोऽमी, भस्मग्रहप्रभृतयोऽहितवारणा ही ॥ जैनं मतं भुवि महावनमस्तशङ्का, भक्तुं कथं सपदि सम्प्रति संप्रवृताः ॥ .. चः पूर्ववत् ॥ इति प्रकरणे ॥ एषु प्रकृतेषु हुण्डावसर्पिण्यादिषु एवं प्रदर्शित-प्रकारेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org