________________
११४
श्री सङ्घपट्टकः प्रतिपदं सुविहितलाघवाऽसंयतगौरवापादनलक्षणदुष्टकार्यदर्शनाद् दुष्टेष्विव दुष्टेषु क्रूरेषु पुष्टेषु प्रकर्षकोटि प्राप्तेषु हुण्डावसप्पिण्यादिषु चतुर्षु अनुकूलं प्रतिसमयम् अधुना साम्प्रतं दुर्लभो दुरापो जैनमार्गप्रतिपत्तिविनकारिणां हुण्डावसप्पिण्यादीनां दुष्टत्वात् ॥
तन्महिम्ना भूयोलोकस्य भवाभिनन्दित्वात्कतिपयसात्त्विकजनोपादेय इति यावत् ॥ जैनमार्गः प्रतिश्रोतोरुपभगवत्पथः ॥ एतन्मध्यादेकोपि दुष्टः पुष्टः स्वकार्यकरणसमर्थः किंपुनः सम्प्रति सर्वेऽपि मिलिताः ॥ ततो यथा दुष्टेषु चरटादिषु प्रभविष्णुषु पुरादिमार्गो जिगमिषतां दुर्गमो भवति तथा भगवन्मार्गोप्यधुनैतेषु सत्स्विति ॥
आगमेप्युक्तम् ॥ दूसमहुण्डावसप्पिणी भसमग्गहपीडियं इमं तित्थं ॥ तेण कसाया जाया, कूरा इह संजयाणंपि॥
. ___ अनुश्रोतोरुपस्तु जैनमार्ग इदानीमपि सुलभः येषामेव हुण्डावसर्पिण्यादीनां सन्मार्गप्रवृत्ति प्रति प्रातिकुल्यं तेषामेवासन्मार्गप्रवृत्तिं प्रत्यानुकूल्यादिति ॥
इत्थं यद्यपि लिङ्गिभिः प्रकटिता भूपृष्ट क्रत्स्नावनीरुद्यत्रप्रमितावतः श्रुतपथावज्ञानसंज्ञान्वितैः ॥ कल्पेनापि कलावता कलयितुं साकल्यतो दुःशङ्का, सम्बोधाय तथापि मूढ मनसामेषा दिगादर्शितेति वृत्तार्थः ॥३०॥
एवं तावदष्टादशभित्तैः प्रबन्धेन लिङ्गिनां श्रुतपथावज्ञा प्रतिपादिता ॥ सम्प्रति तैरेव धर्मतया प्रतिपादितं गुणिद्वेषधीरिति द्वारं निराकुर्वंस्तेषां गुणिद्वेषं दर्शयन्नाह ॥
॥ मूलकाव्यम् ॥ सम्यग्मार्गपुषः प्रशान्तवपुषः प्रीतोल्लसच्चक्षुषः, श्रामण्यद्धिमुपेयुषः स्मयजुषः कन्दर्पकक्षप्लुषः । सिद्धान्ताध्वनि तस्थुषः शमजुषः सत्पूज्यतां जग्मुषः,
सत्साधून् विदुषः खलाः कृतदुषःक्षाम्यन्ति नोद्यद्रुषः ॥३१॥ टीका:-खलाः सत्साधून् न क्षाम्यन्तीति सम्बन्ध ॥ तत्र खला गुणीमत्सरिणः प्रकरणाल्लिङ्गिनः कृतदुष इति ॥ दुषधातुः क्विबन्तोऽत्र दोषपर्यायस्ततश्च कृता विहिता दुषो दोषाः स्वयमनेकाना यैस्ते तथा ॥ तत्स्वभावत्वात्तेषाम् ॥ अथवा कृता आरोपिता दुषो दोषा यैस्ते तथा ॥
निर्मलेष्वपि सन्मुनिगुणेषु लोकमध्ये लाघवापादनाय स्वधिया विहितदोषारोपा इत्यर्थः ॥ गुणवत्स्वसदोषारोपणस्य तेषां कुलव्रतत्वात् ॥
॥ तदुक्तम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org