________________
विभाग-१, बृहद्वृत्तिः
११५ लोभार्थं मलिनांशुके कितबतां कष्टक्रियाधायिनि, प्राहुर्दाभिकतामभिग्रहरुचौ पङ्क्त्यर्थतां क्षन्तरि । गुप्तांगे बकवृत्तितां च तपसा शस्ये नमस्येच्छुता
मित्थं हंत न दुषयन्ति यतिनां ही लिङ्गिनः कान् गुणान् ॥ ते हि तद्गुणानसहमानास्तान्निन्दन्ति ॥ तदुक्तम् ॥
बाणनिव गुणान् कर्णमागतानसहिष्णवः ।
पीडापादनतोऽव्रीडा निदन्ति गुणीनां खलाः ॥ उद्यद्वषः निनिमित्तं सुविहितदर्शनमात्रेणैव प्रकटितललाटतटभ्रकुट्यादिक्रोधविकाराः न क्षाम्यन्ति न सहन्ते द्विषन्तीत्यर्थः ॥ अत्र देशेऽमीषां प्रचारेण वयं लोकस्यागौरवा भविष्याम इत्यादि बुद्धया मात्सर्यात्तत्रावस्थातुमेव तेषां न ददतीत्यर्थः ॥ सत्साधून् सुविहितयतीन् सत्साधुत्वमेवानुगुणविशेषणैस्तेषां भावयति ॥
सम्यग्मार्गपुषः भगवत्प्रणीतज्ञानादित्रयरुपमोक्षपथस्य भव्यानां शुद्धोपदेशप्रतिबोधद्वारेण विस्तारकान् ॥ एतेन तेषामुत्सूत्रभाषणप्रतिषेधमाह ॥ __ प्रशान्तवपुषः बहिरलक्षितरागादिविकारशारिरभाजः एतेनान्तरमपि प्रबलरागाद्यभावं प्रकाशयति ॥ अन्तस्तद्भावे बहिः सर्वदा प्रशान्तत्वानुपपत्तेः॥ - प्रीतोल्लसच्चक्षुषः द्विषानपि प्रतीत्य प्रसन्नोत्फुल्ललोचनान् । एतेन बहिः कोपविकारपरिहारमाविष्करोति ॥ श्रामण्यद्धि प्राणातिपातविरमणादिपञ्चमहाव्रतविभूतिमुपेयुष आसेदुषः । एतेन दीक्षामूलं सर्वविरतिसम्पदं दर्शयति ॥
स्मयमुषः अहङ्कारतिरस्कारिणः ॥ एतेन वाग्मित्वविद्वत्त्वादावभिमानहेतौ सत्यपि तदभावं प्रकटयति ॥(सत्सूत्रक्रियाभिः) कन्दर्पकक्षप्लुषः मन्मथशुष्कतृणदाहिनः ॥ एतेन सर्वव्रतमध्ये निरपवादब्रह्मव्रतदाढ्यं दृढयति ॥
सिद्धान्ताध्वनि शुद्धागममार्गे तस्थुषः स्थितवतस्तत्परानित्यर्थः ॥ एतेन स्वयमुत्सूत्रक्रियानिषेधं प्रतिपादयति ॥ शमयुषः क्षमाभाजः ॥ एतेनान्तरेपि क्रोधनिरासं ज्ञापयति ॥
सत्पूज्यतां विवेकिजनसेव्यतां जग्मुषः प्राप्नुषः एतेन सकलश्रमणगुणसंपत्तिमाविर्भावयति ॥ निर्गुणानां विवेकीलोकपूजनाऽसंभवात् ॥ विदुषः विचक्षणान् ॥ एतेन स्वसमयपरसमयसारविदुरतां विस्फारयति ॥ - न चैवं गुणशालिषु यतिषु द्वेषः कर्तुं युक्तः ॥ अणीयसोपि तद्वेषस्य सकलगुणिगतगुणद्वेषरुपत्वेनानन्तभवभ्रमणनिबन्धनत्वात् ॥ यदुक्तम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org