________________
श्री सङ्घपट्टकः, सम्यक्त्वज्ञानशीलस्पृश इह गुणिनः साधवोऽगाधमेधास्तेषु द्वेषो गुणानां गुणिभिरभेदया वस्तुतः स्याद् गुणेषु । सर्वस्थानां गुणानामवगमनमतोऽहाय मिथ्यात्वमस्मा
त्तस्माद् भूयो भवाब्धिभ्रमणमिति गुणिद्वेषधीर्वर्जनीया ॥ सिद्धान्तेऽप्यभिहितम् ॥ भरहेरवयविदेहे, पंनरसवि कम्मभुमिया साहू ॥ एक्कमि हीलियंमि, सव्वे ते हिलिया हुन्ती ॥ संतगुणछायणा खलु पर परिवाओय होइ अलियं च ॥ धम्मे वि अबहुमाणो, साहुपओसे य संसारो ॥ ततः प्रेक्षावता गुणिषु बहुमान एव कर्त्तव्यो न द्वेष इति वृत्तार्थः ॥३१॥ ____ अथ कथमेवंविधानपि सत्साधून् खला न क्षाम्यन्ति ॥ मिथ्यात्वप्राबल्यादिति ब्रूमः ॥ अत एव तद्वतो मूढजनस्य नामजैनपथवर्तिनः स्वरुपं निरुपयन्नाह ॥
॥ मूलकाव्यम् ॥ देवीयत्युरुदोषिणः क्षतमहादोषा न देवीयति, . . सर्वज्ञीयति मूर्खमुख्यनिवहं तत्वज्ञमज्ञीयति । उन्मार्गीयति जैनमार्गमपथं सम्यक्पथीयत्यहो,
मिथ्यात्वग्रहिलो जनः स्वमगुणाग्रण्यं कृतार्थीयति ॥३२॥ टीका:-मिथ्यात्वग्रहिलो जन उरुदोषिणो देवीयतीत्यादि सम्बन्धः ॥ अहो इति विस्मये ग्रहः चैतसोऽसन्निर्बन्धः सोऽस्यास्तीत्यस्त्यर्थे इल प्रत्ययस्तद्धितः ॥ इह मिथ्यात्वं प्रकरणादाभिनिवेशिकं गृह्यते ॥ प्रायेण जैनमिथ्यादृष्टिनां गोष्ठामाहिलमाइणेत्यादिनाभिनिवेशिकस्यैव तस्य प्रतिपादनात् ॥ ततश्च तेन ग्रहिलः प्रबलमिथ्याभिनिवेशग्रहगृहीत इत्यर्थः ॥ __जनो धर्मध्वजितद्भक्तश्राद्धलोकः उरवो महान्तो यतिजनस्यात्यर्थमनुचितत्वेन दोषा अपराधा रागद्वेषप्राणातिपातादय उरुदोषास्तद्वतः आचार्यादीनिति गम्यम् ॥
देवीयति देवानिव जिनानिवाचरति यादृशा देवा नीरागा अतिशयादिमन्तश्च तादृशा अमी तस्मादाराध्या इति देवैस्तानुपमिमीते ॥ न च तादृशां तदुपासनं समीचीनम् ॥ तेषां महादोषवत्त्वेन देवोपमानविधानस्य महापातकहेतुत्वात् परं मिथ्यात्वस्य विपर्यासरुपत्वाद्विपरीतबुद्धिस्तादृशानपि तथोपमिनोति ॥ एवमुत्तरपदेष्वपि भावनीयम् ॥ ___क्षतमहादोषान् प्रनष्टप्रागुक्तबृहदपराधान् युगप्रधानादीनिति शेषः अदेवीयति अदेवानिवाचरति ॥ नामीदेवसदृशाः सदोषत्वान्निरतिशयत्वाच्च तस्मादनाराध्या इति ॥ अत्र च क्षीणप्रायमहादोषाणां देवैरुपमानं सिद्धान्तेप्युदितम् ॥
पडिरुवो तेयस्सी इत्यादावाचार्यगुणवक्तव्यतायां प्रतिरुपः सिद्धान्ततात्पर्यपरिच्छेद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org