________________
११७
विभाग-१, बृहद्वृत्तिः देशनातिशयवत्त्वादिना तद्विषयबुद्धिजनकत्वात्तीर्थंकरप्रतिबिम्बरुप इति व्याख्यानात् ॥ स च विपर्यस्तमतित्वात्तथा न करोति ॥
एवमदेवप्राये देवबुद्धिर्देवप्रायेचादेवबुद्धिरिति मिथ्यात्वरुपं प्रतिप्राद्यागुरौ गुरुबुद्धयादिरुपं तदाह ॥ सर्वज्ञायति सर्वज्ञमिव सर्वविदमिवाचरति मूर्खमुख्यनिवहम् अज्ञचूडामणिसमुहं स्वाभ्युपेतगच्छस्थितं यतिजनं यथा सर्वज्ञसदृशोऽयं मदीययति जनः किं किं शास्त्रजातं न वेत्तेति ॥
तत्वज्ञं षट्दर्शनतर्ककर्कशधियं स्वपरसमयनिर्णयभूमिं सूरिविशेषम् अज्ञीयति अज्ञमिव बालिशमिवाचरति ॥ यथा न किञ्चिदप्येष जानाति ॥ अयमर्थः ॥ न हि मूर्खशिरोमणेः सर्वज्ञेनोपमानं युक्तम् ॥ नापि तत्वज्ञस्याज्ञेन ॥ अत्यन्तमनुरुपत्वात् ॥ परं स मिथ्याज्ञानादेवमपि करोति ॥
अधुना अमार्गे मार्गबुद्धयादिरूपं मिथ्यात्वं दर्शयति ॥ उन्मार्गयति ॥ उन्मार्ग-मिव उत्पथमिवाचरति जैनमार्ग शुद्धं भगवत्पथम् ॥ यथा नायं भगवत्प्रणीतो मार्गः किन्तूत्सूत्र इति ॥ अपथं कुमार्ग प्राक् प्रतिपादितमौद्देशिकभोजनादिकं स्वकल्पितं सम्यक् पथीयति सम्यक् पथमिव सन्मार्गमिवाचरति ॥ ... अत्रापि यज्जिनमार्गस्य चन्द्रवत्प्रकाशकस्योन्मार्गेण तामसेन सादृश्यापादन-मुन्मार्गस्य च सत्पथतुल्यतापादनं तन्मिथ्यात्वोदयादिति ॥ तथा स्वमात्मानम् अगुणग्रण्यं निर्गुणधुरंधुरं कृतार्थीयति कृतार्थमिव विहितसकलप्रयोजनमिवाचरति ॥ अत्रापि स्वस्य निर्गुणमुख्यस्य कृतार्थेन गुणिमुख्येनोपमानमविद्यावत्त्वादिति ॥ . एवं तावल्लोकोत्तरिकजनविषयं मिथ्यात्वस्वरूपं प्रदर्श्य बाह्यलोकविषयमपि प्रसङ्गात् किञ्चित्तद्दर्श्यते ॥ मिथ्यात्वग्रहिलो जनः अभिग्रहिकादिमिथ्यात्ववान् जिनमतबहिर्भूतो लोकः देवीयति देवानिवाचरति मुक्त्यर्थमाराध्यतया देवत्वेनाभ्युपैतीति यावत् ॥ उरुदोषिणो रागादिमतो लोकप्रतीतान् देवान् ॥ क्षतमहादोषान् वीतरागान् लोकोत्तरविश्रुतान् अदेवीयति अनाराध्यत्वेनाऽनुमन्यते ॥
अथ कथमेतन्मिथ्यात्वमितिचेत् ॥ उच्यते ॥ दोषवतां देवत्वाभावात् ॥ तथाहि ॥ साक्षात् कृतधर्मा निरीहत्वेन परोपचिकीर्षाप्रयुक्तो यो मुक्तिमार्गमुपदिशति स देव इत्याप्त इति चोच्यते ॥ न च रागादिमत एतल्लक्षणं सङ्गच्छते ॥ तद्वचनस्य प्रबलविप्रलम्भकवाक्यवद्विसंवादित्वाद्विसंवादकवचनाच्च प्रेक्षावतां प्रवृत्यनुपपत्तेः ॥ - रागादिमन्तो हि विप्रलिप्सया नद्यास्तीरे गुडशकटं पर्यस्तमास्ते धावत डिम्भका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org