________________
श्री सङ्घट्टकः
इत्यादिवत्कदाचिदन्यथा व्यवस्थितमर्थमन्यथापि ब्रुवाणा उपलभ्यन्ते ॥ तथा च तद्वचनात् प्रवर्तमाना डिम्भकवन्नसमीहितमश्नुवीरन् ॥ माभूद्वा विप्रलिप्सा तथापि तस्य रागादिमत्त्वेनासाक्षात्कृतधर्मतया सम्यग् मुक्तिमार्गोपदेशाननुपपत्तेः ॥
११८
तथात्वेव अस्मदादीनामपि रागादिमतां साक्षात्कृतधर्मत्वेन सार्वज्ञ्यापत्तेः तथाच सिद्धं समीहितं किं मुक्त्यर्थं तदन्वेषणेन ॥ आर्केचेन्मधु विन्देत्तत्किमर्थं पर्वतं व्रजेत् ॥ इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेदिति लौकिकन्यायात् ॥ किं च परोपकारोपि परेषां संसारतारणलक्षणस्तस्य न संभवति ॥ रागादिमत्त्वेनास्मदादिभिस्तुल्ययोगक्षेमतया तस्य स्वयमतरितुः परतारकत्वानुपपत्ते: लोकेऽपि पोतादेः स्वयं तरितुरेव परतारकत्वोपलम्भात् ॥
"
ननु स्यादेतद्यदि रागादिमत्त्वं भवेत्तदेकवाक्यतया सकलपार्थिवादिविचारचतुरप्रधानपुरुषपूज्यतान्यथानुपपत्त्या तेषामसिद्धमिति चेत् न । तत्प्रकृतिष्वङ्गनादिघटनावलोकनेन तत्सिद्धेः ॥ तेषां रागादीमन्तरेण तत्प्रतिबिम्बेषु तल्लक्षणाध्यारोपासंभवात् ॥ इतरथा तत्प्रतिबिम्बत्वानुपपत्तेः ॥ उपलादिना सकलतत्तुल्याकारनिर्मापणं हि तत्प्रतिबिम्बं नाम तन्नूनं रागादिमन्त इति ॥ यदुक्तम् ॥
लक्ष्यन्ते ललनाङ्गसङ्गमविधे रागोपरागोपगा, द्वेषश्लेषभुजो भुजोज्जितमदाद्धस्ते च शस्त्रग्रहात् । श्रेयःकल्पलत्तास्त्रशास्त्ररचनान्मोहप्ररोहस्पृशो,
ये देवा ननु संतुमंतुसहितास्तेवीतरागाः कथम् ॥
यदपि पार्थिवादिपुरुषपूज्यतान्यथानुपपत्त्या तेषां वीतरागत्वप्रसाधनं तदप्यविद्याविलसितम् ॥ यतो यत एव तेषामध्यक्षेण रागादिलक्षणं लक्ष्यन्तोऽपि ते तान् वीतरागतयाध्यवसाय पूजयन्त्यत एवैतन्मिथ्यात्वमुच्यते ॥
अतस्मिंस्तदिति प्रत्ययस्यैव तल्लक्षणत्वात् ॥ तस्मान्न रागादिमन्तो देवाः किन्तु संप्रत्यपि बिम्बादिषु रामादिलक्षणविरहदर्शनेन वीतरागतयानुमीयमान एव देव इति ॥ यदुक्तम् ॥
Jain Education International
यस्य सङ्क्लेशजननो, रागो नास्त्येव सर्वथा । न च द्वेषोऽपि सत्त्वेषु शमेन्धनदवानलः ॥
न च मोहोपिसंज्ञानाच्छादनोऽशुद्धवृत्तकृत् ॥ त्रैलोकख्यातमहिमा, महादेवः स उच्यते ॥ एवंविधश्चमहादेवोऽर्हन्नेव ॥ यदुक्तम् ॥
अर्हन्नेव च लक्षलक्षणगणो रागादिलक्षक्षते,
र्देवः केवलमृद्धकेवलबलः स्याद्वीतरागस्ततः ।
For Personal & Private Use Only
www.jainelibrary.org