________________
विभाग-१, बृहद्वृत्तिः
गीर्वाणाः कथमन्यथा समुदिता भक्त्यान्वहंपूविकामस्यैव प्रथयन्ति संसदि महाष्टप्रातिहार्यार्हणाम् ॥
११९
तदेवंविधेपि वीतरागे अदेवबुद्धिरित्यहो महामिथ्यात्वं तदियताऽदेवे देवताबुद्धिर्देवे वादेवबुद्धिरिति मिथ्यात्वस्वरूपं निरूपितम् ॥ तथा सर्वज्ञयति सर्वविदयमित्यभिमन्यते मूर्खमुख्यनिवहम् अन्यपरतीर्थिकसमूहं प्राणातिपाताद्यनिवृत्तं स्वगुरुतयाभिमतम् ॥
अथ मूर्खेषु सर्वज्ञत्वाभिमानो भवतु मिथ्यात्वं ये तु कतीर्थिका अपि सकलानवद्यचातुर्विद्यविशारदाः प्रत्यक्षशारदाकाराः अनल्पविकल्पजालजटिलजल्पविधौ गीर्वाणगीर्बाणविदारितप्रतिवादिकोविदलक्षाः सम्प्रत्यपि भूरिश उपलभ्यन्ते तेषु सर्वज्ञत्वाध्यवसायस्य कथं मिथ्यात्वमिति चेत् ॥ सत्यम् ॥ तत्ज्ञानस्यैकान्ताभ्युपगमविषयत्वेन वस्तुतोऽज्ञानत्वात् ॥
न चैकान्त एव साधीयानिति वाच्यम् ॥ तदाहि सद्रुप एव भावः स्यात् असद्रूप एव वेति भवदभिमतद्योतकं विकल्पयुगलमवतरति तत्र न तावदाद्यः एकान्तेन सत्त्वे हि घटस्य स्वरूपवत्पररूपेणापि सत्त्वात्तद्रूपापत्त्या स्वरुपापगमप्रसङ्गः अनेकरूपत्वाभ्युपगमे वा जगद्वैचित्र्यभङ्गप्रसङ्गात् ॥
एकस्मादेव घटादेः सकलपदार्थकार्यकारणोपपत्तेस्तथा च घटो जलहरणवत्प्रावरणाद्यपि पटादिकार्यं कुर्यान्न चैवम् ॥ तस्मान्न सद्रूप एव भावाः ॥ नापि द्वितीयः ॥ एकान्तासत्त्वस्वीकारे घटस्य पररूपवत्स्वरुपेणाप्यसत्त्वेन खरविषाणवदत्यन्ताभावप्रसङ्गात् ॥ तथा नोदकार्थी घटार्थं प्रयतेत तस्यात्यन्तासत्त्वेन समस्तार्थक्रियाविरहात् ॥
तस्मादेकान्तेन सदसत्त्वाभ्युपगमे भावस्यार्थक्रियानुपपत्तेरुभयरूपं वस्त्वभ्युपगन्तव्यम् न 'च सदसत्त्वयोरन्योन्यविरोधेनैकत्र समावेशाभावान्नोभयरुपता भावस्य सङ्गच्छत इति वाच्यम् ॥ भावस्य स्वरुपेण सदसत्त्वाभ्युपगमे हि स्याद्विरोधः स्वरूपपररूपाभ्यां तु तदभ्युपगमे कानुपपत्तिः ॥
तथाहि ॥ घटः स्वरूपेण द्रव्यतः पार्थिवत्वेन सन्नाप्त्वादिना ॥ क्षेत्रत इहत्यत्वेन न माथुरत्वादिना ॥ कालतो वर्तमानकालत्वेन नातीतादिकालत्वेन ॥ भावतः श्यामत्वेन न रक्तत्वादिनेति ॥ इतरथाप्यत्वादिनापि तत्रूपसत्त्वेऽनेकरूपत्वं स्वरुपविलोपो वाप्रसज्येत ॥ तस्मात् सदसद्रूपं वस्तित्वति ॥
Jain Education International
किञ्चैकान्तवादे सदसतोरविशेषप्रसङ्गः ॥ तथाहि नित्यैकान्तवादिनां साङ्ख्यानां मते यथा असता मृत्पिडेन घटो न जन्यते ॥ तथा सतापि न जन्येत । सदेवकारणे कार्यमिति सत्सिद्धान्तात् ॥ सतश्चोत्पादानुपपत्तेः ॥ क्षणिकैकान्तिवादिनामपि सौगतानां मते असतेव सतापि कारणेन कार्यं न जन्येत असदेव कारणे कार्यमित्यभ्युपगमात् ॥ तथा च कारणे सर्वथा
For Personal & Private Use Only
www.jainelibrary.org