________________
१२०
श्री सङ्घपट्टकः कार्यानन्वयान्मृत्पिण्डादपि घटो नोत्पद्येत ॥ उत्पादे वा तन्त्वादिभ्योप्युत्पद्येत ॥ अकारणत्वाविशेषादिति ॥
अत्र च बहु वक्तव्यम् ॥ तच्चाप्रकृतत्वान्नोच्यते ॥ एवं चाप्रमाणिकैकांतविषयतयो पपद्यते तत् ज्ञानस्याऽज्ञानत्वम् ॥ तथा भवहेतुत्वयादृच्छिकोपलंभत्वनिष्फलत्वेभ्योपि ॥ यदाह॥ सदसदविसेसणाओ भवहेओ जहच्छिओवलंभाओ । नाणफलाभावाओ मिच्छदिठिस्स अन्नाणं ॥
एवं च सिद्धं तेषां वस्तुतो मूर्खत्वम् ॥ तथा च तेषु सर्वज्ञत्वाध्यारोपो मिथ्यात्वमिति ॥ तत्वज्ञं समस्तशास्त्ररहस्यवेदिनं परमार्हतं पञ्चमहाव्रतधारिणं सर्वज्ञप्रायं सिताम्बरसूरिम् अज्ञीयति मू«यति ॥ एवं च तत्वज्ञे गुरावज्ञत्वारोपो मिथ्यात्वविजूंभितम् ॥
एतावता चागुरौ गुरुभावना गुरौ चागुरुधीरिती मिथ्यात्वं लक्षितम् ॥उन्मार्गीयति उत्पथत्वेन मन्यते जैनमार्गम् ॥ अपथं कुतीर्थिकमतं सम्यक् पथीयति सन्मार्गीयति ॥ अत्र च ॥ जैनमार्गस्योन्मार्गत्वं त्रयीबाह्यत्वादिना कुतीर्थ्यपथस्य च सत्पथत्वं तदन्तर्भावादिनाभ्युपगच्छन्ति मिथ्यादृशः ॥
एतच्चासुन्दरम् ॥ त्रय्याः प्रामाण्येन हि तद्बाह्यतया जैनपथस्योत्पथत्वं स्यान्न चैवमस्ति तस्या लोकलोकोत्तरविरुद्धार्थप्रतिपादकत्वेनाप्रामाण्यात् ॥ तथाहि धर्ममार्गस्य मूलं दया सर्वदर्शनेषु गीयते ॥ यदाह ॥ पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् ॥ अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ त्रय्याश्च यागादिषु छागादिहिंसामुपदिशन्त्याः कथं धर्ममार्गत्वम् ॥ ____ अथ त्रयीविहितत्वात्तद्धिसाया धर्महेतुत्वेन स्वर्गफलत्वादव्याहतं तस्या धर्ममार्गत्वमिति चेत् न ॥ तस्या एवाप्रामाण्यात् ॥ तथाहि त्रय्याः प्रामाण्यां यदभ्युपेयते भवता तत्किमपौरुषेयत्वात् अहो ईश्वरकर्तृकत्वात् उताव्याहतार्थप्रतिपादकत्वात् आहोस्विदव्यभिचारिप्रमाजनकत्वात् ॥ ___ न तावदाद्यः ॥ किल पुरुषाणां रागादिमत्त्वेन तद्वचनस्य प्रतारकवाक्यवद्दोषवत्ताशङ्कया हानोपादानाविषयत्वेन त्रय्यास्तदभ्युपगमो भवतः ॥ एतच्चासङ्गतम् ॥ वचन स्यापौरुषेयत्वासिद्धेः ॥ उच्यते इति वचनमित्यन्वर्थस्य विवक्षाप्रयत्नोदीरितकोष्टवाद्यभिहन्यमानताल्वादिकारणकलापमन्तरेणानुपपत्तेः ताल्वादीनां च पुरुषमन्तरेणासंभवात् ॥
नापि द्वितीयः ॥ तस्य रागादिमत्त्वेन तद्वचनस्याप्रामाण्याशङ्काकलङ्कितत्वात् ॥ रागादिमत्त्वं तस्यासिद्धमितिचेन्न अङ्गनादिसम्बन्धात्तदुपपत्तेः ॥ अवा॑गवस्थायां तदुपपत्तावपि परावस्थायां तदभावात्तद्वचनस्य प्रामाण्यमितिचेन्न ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org