________________
विभाग-१, बृहवृत्तिः
१२१ भवदभ्युपगमेन तस्यानादिसिद्धत्वादाक्परावस्थाभिधानविरोधात् ॥ भवतु वा कथञ्चित्तस्यावस्थाद्वयं तथापि परावस्थायामपि शरीरपरिग्रहमन्तरेण ताल्वादिकारणाभावेन तस्य त्रयीप्रतिपादनासंभवात्कथं तस्यास्तत् कर्तृकत्वं सिद्ध्येत् ॥ __नापि तृतीयः ॥ न हिंस्यात्सर्वभूतानीत्यनेनविशेषेण हिंसानिषेधमभिधायाग्नीष्टोमीयं पशुमालभेत स्वर्णकाम इत्यादिना तद्विधिमुपदिशन्यास्तस्याः परस्परविरुद्धार्थप्रतिपादनात् ।। अथ स्वर्गादिफलविशेषोद्देशेन हिंसाविधेरुपदेशान्न तेन सामान्यविधिविहितहिंसानिषेधव्याघात: ४ अपवादविषयं परिहत्योत्सर्गप्रवृत्तेरितिचेन्न विकल्यासहत्वात् ॥
न हिंस्यादित्यादिका हि श्रुतिः किं फलवती न वा न चेत् किमनयाऽजगलस्तनकल्पया फलोद्देशाभावे प्रेक्षावत्प्रवृत्यनुपपत्तेः ॥ प्रयोजनमनुदिश्य न मन्दोऽपि प्रवर्त्तत इति न्यायात् ॥ फलवती चेत् केन फलेन किं स्वर्गादिना आहो ऐहिकेन ॥ उतोभयेन ॥
न प्रथमतृतीयौ ॥ विविक्षितश्रुतेरैहिकामुष्मिकफलत्वे तयैव साध्यसिद्धेः कृतं निरपराधपशुवधाभिधायिना श्रुत्यन्तरेण ॥ नापि द्वितीयः ॥ तदा हि ॥ प्रतिनियतफलविषयतयोभयोरपि श्रुत्योः सामान्यविधित्वं विशेषविधित्वं वा प्रसज्येत ॥ विनिगमनायां प्रमाणाभावात् ॥ - न चैतद् भवतोप्यभिमतम् ॥ तस्मान्न हिंस्यादित्यादिश्रुत्यैव सकलसत्त्वाभयदानप्रतिपादनदुर्ललितयाऽनायाससाध्यार्थया स्वर्गादिफलसिद्धेः किमनया यागकारिणां पिशितलोलतामात्राभिव्यञ्जिकयाऽमुत्र नरकपातकारिण्या बहुवित्तव्ययायाससाध्यार्थया पशुवधश्रुत्येति ॥ ___नापिचतुर्थः ॥ यागादिविहितायां हिंसायामप्यहिंसाबुद्धयुत्पादनेन रागादिमत्तयाऽनाप्तेष्वप्याप्तबुद्ध्युत्पादनेन च विपर्ययज्ञानजननात् ॥ तथा चोक्तं विप्रोत्तमेन परीक्षा पुरस्सरमभ्युपेतजिनशासनेन श्रुतीनां परस्परव्याहतार्थत्वादिकं मीमांसमानेन प्रमाणिकचक्रचूडामणिना पण्डितधनपालेन ॥ ___ स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसंज्ञा द्रुमाः स्वर्गश्छागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् ॥ आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हवि श्चेत्थं वल्गु च फल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ॥
एवं च त्रय्या अप्रामाण्ये कथं तस्या धर्ममार्गत्वम् । तथा च सति तन्मूलस्य कुतीर्थिकपथस्यापि सन्मार्गत्वमपास्तम् ॥ जिनमतस्यैव त्वनेकान्तरूपतया प्रवृत्तिनिवृत्यादिरुप सकललोकव्यवहारप्रवर्तकत्वेन प्रामाण्यं तत्प्रामाण्याभ्युपगममन्तरेण वस्तुतस्तस्याप्यनुपपत्तेः ॥
यदुक्तम् ॥ जेण विणा लोगस्स वि, ववहारो सव्वहा न निव्वडइ । तस्स भुवणेक्कगुरुणो, नमो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org