________________
१२२
श्री सङ्घपट्टकः अणेगंतवायस्स॥
तथा च पूर्वापराऽव्याहतार्थप्रज्ञापकत्वादादिमध्यावसानेषु दोषवर्जितत्वान्निःश्रेयसपथत्वाच्चेतरप्रतिक्षेपेण तस्यैवसन्मार्गत्वम् ॥
॥ यदुक्तम् ॥ स्याच्छब्दयुग्नयसमुच्चयलीढसर्व । भावावभासनमधीरपवर्गमार्गम् ॥ पूर्वापरव्यतिहतिच्युतमत्रिकोटि । दोषं मतं तु कुपथीयति कोऽत्र जैनम् ॥
एवं च वास्तवे जैनमार्गे अवास्तवत्वारोपः ॥ अवास्तवे च कुतीर्थ्यपथे वास्तवत्वसमारोपो मिथ्यात्वमहिम्नेति ॥ एतावता च तत्त्वेऽतत्त्वबुद्धिरतत्त्वे च तत्त्वबुद्धिरिति मिथ्यात्वलक्षणमाविर्भावितम् ॥ स्वमगुणग्रण्यमित्यादि तु पूर्ववत् ॥ तदाश्चर्यमेतन्मिथ्यात्वोपहता यदेवं विपर्ययेण सर्वमवसाय गुणिनो द्विषन्तीति वृत्तार्थः ॥
ननु किमिदानीं गुणिभिः प्रयोजनं सङ्घ एव भगवान्निःशेषदोषमोषक्षमः समाश्रीयताम् ॥ भगवतापि च तस्य महत्त्वेन नमस्कृतत्वात्तथा च तदाज्ञया वर्तमानानां मोक्षः प्राणीनां संपश्यत इत्याशझ्याधुनातनसङ्घवशवतिनो भव्यजनस्याक्षेपपूर्वं मोक्षाभावमुपदर्शयिषुराह ॥
॥ मूलकाव्यम् ॥ सङ्घत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतस्तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुं । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः,
सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः कुतः ॥३३॥ टीका:-जन्तवो धर्मार्थिनो भव्यसत्वाः त एवाऽचलत्वान्मुग्धत्वात्सत्त्वरहितत्वाच्च हरिणा मृगास्तवातस्य तत्समुदायस्य ॥ उत्पथप्रवृत्त उत्सूत्रप्रज्ञापकः श्रुताज्ञानिरपेक्षः स्वच्छन्दचारी सातलोलुपः साधुसाध्वीश्रावकश्राविकासमवायो भूयानिह सङ्घ उच्यते स एव बलिष्ठत्वात् क्रूरत्वात् व्याघ्रः ॥ शार्दूलस्तद्वशस्य तदधीनस्य दासवद्यत्रतत्र नियोज्यस्येति यावत् ॥
द्वितीयपक्षे ग्रासविषयीभूतस्य ॥ मोक्ष इति श्लिष्टं पदं ॥ तेन जन्तुपक्षे मोक्षो निर्वाणं ॥ हरिणपक्षे च छुटनं व्याघ्रात्पलायनमिति यावत् ॥ कुतःकस्मान्न कथञ्चिदित्यर्थः ॥ ननु मुक्त्यनुगुणानुष्ठानाभावात्तस्य मोक्षाभावः किमायातं सङ्घस्येत्यत आह ॥
मुक्त्यै निश्रेयसार्थं कल्पितदानशीलतपसोपि स्वबुध्या विहितजिनादिवितरणदेशचारित्रानशनादेरप्यास्तां तदितरस्येत्यपि शब्दार्थः ॥ कथं तर्हि मोक्षाभाव इत्यत आह ॥ सङ्घाय लिङ्गिसमुदायाय देयानि कृतानि देये त्रा चेति त्रा तद्धितः ॥ ततश्च सङ्घनाकृतानि श्रावकलोकेन
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org