SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विभाग-१, बृहवृत्तिः १२३ भक्त्या स्वद्रविणेन निर्माप्य लिङ्गिभ्यस्तद्देशनयैव वासाद्यर्थं समर्पणेन तदायतीकृतानि चैत्यानि ॥ चैत्यानि जिनायतनानि तान्येव कूटा हरिणबन्धनयन्त्रविशेषाः ॥ अथ कथमिह चैत्यानां कूटैर्निरूपणम् ॥ यावता दर्शनवन्दनादिना भव्यानां रागद्वेषकषायाद्यरूषितशुभचित्तोत्पादनेन भवगुप्तिमोचनहेतुर्जिनबिम्बं जिनभवनं वा चैत्यमुच्यते ॥ ॥ यदुक्तम् ॥ चित्तं मुषसत्थ मणो तत्तावो कम्म वावि जंतस्स ॥ तं चेइयंति भन्नइ, उवयारो होइ जिणपडिमा ॥ कूटश्चबन्धनहेतुरभिधीयते ॥ मोचनहेतुबन्धनहेत्वोश्चमहद्वैषम्यम् ॥ तथा चानयोरुपमानोपमेयभावाभावेन तदभेदस्य रुपकलक्षणस्येहाऽनुपपत्तेः ॥ कथं चैत्यानां कूटैरभेदाद्रूप्यरुपणभाव इति चेत्सत्यम् ॥ यानि चैत्यानि मुक्तिकृते सिद्धान्तविधिना लिङ्गिनां निश्रानिवासविरहेण श्राद्धैविधायते तानि संसारगुप्तिमोचननिबन्धनानि भवन्ति ॥ एतानि तु प्रकृतचैत्यानि मुग्धान् प्रोत्साह्य स्वनिवासाद्यर्थं कथमाजन्मामी श्राद्धा अस्माकं भोग्या भविष्यन्ति इत्याशयेन तेषां तत्र ममकारोत्पादनेन नियमनार्थं लिङ्गिभिः कारितानि तत्कथमेतेषां मोचनहेतुत्वम् ॥ । . प्रत्युत बन्धननिबन्धनत्वमेव पूर्वोक्तयुक्त्या विमृशमानं सङ्गच्छते ॥एवं चैत्यानां कूटैरत्यन्तं बन्धनहेतुत्वसाम्येनाभेदविवक्षणाद्युक्तौ रुप्येण रुपणभाव इति ॥ एतेन विविक्षत चैत्यानां बडिशपिशितवदित्युपमानेनाऽनायतनत्वं प्राक्प्रतिपादितमपि पुनर्विनेयजनमनः-प्रतीतिदाढ्यार्थमिहापि तदेव व्यञ्जितमिति द्रष्टव्यम् ॥ - आयतनत्वे गर्हिततमैः पापोपकरणैः कूटैस्तेषां रूपकानुपपत्तेः ॥ इयांस्तु विशेषस्तत्र बिम्बस्यैव तत्सूचितमिह बिम्बानां तदायतनानां च ॥ तथा तत्रोपमानेन भिन्नेनैवोपमेयस्याऽनायतनत्वमाविष्कृतम् ॥ उपमानोपमेययोर्भेदेनैवोपमायाः प्रवृत्तेः ॥ इह त्वेवं नाम कूटैश्चैत्यानां साम्यं येनोभयथाप्यभेदविवक्षया कुटत्वेन रूपितानि चैत्यानि ॥ ___तथा च रुपकालङ्कारेणोपमानादभेदेनोपमेयस्यातिशयने ताद्रूप्यमनायतनत्वं प्रत्याख्याप्यते ॥ तथा च तल्लक्षणम् ॥ तद्रूपकमभेदो य उपमानोपमेययोरिति ॥ तद्युक्तमुक्तं चैत्यान्येव कूटा इति ॥ - अत एव लिङ्गिपरिगृहीतचैत्यानां युगप्रवरश्रीजिनवल्लभसूरिदेशनानिशमनादनायतनत्वं निर्णीय श्री चित्रकूटे प्रभुभक्तश्रावकैः श्रीमहावीरजिननिकेतनं विधिचैत्यं विधिपथविकाशयिषया निर्मापयाम्बभूवे ॥ तथा चैतदर्थं सत्यापिका तत्रत्या प्रशस्तिः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy