________________
१२४
श्री सङ्घपट्टकः क्षुद्राचीर्णकुबोधकुग्रहहते स्वं धार्मिकं तन्वति । द्विष्टानिष्टनिकृष्टधृष्ठमनसि क्लिष्टे जने भूयसि ॥ ताहालोकपरिग्रहेण निबिडद्वेषोग्ररागग्रह । ग्रस्तैस्तद्गुरुसात्कृतेषु च जिनावासेषु भूम्नाऽधुना । तत्त्वद्वेषविशेष एष यदसन्मार्गे प्रवृत्तिः सदा ॥ सेयं धर्मविरोधबोधविधुतिर्यत्सत्पथे साम्यधीः। तस्मात्सत्पथमुद्विभावयिषुभिः कृत्यं कृतं स्यादिति ।
श्रीवीरास्पदमाप्तसम्मतमिदं ते कारयांचक्रिरे॥ व्याख्या:-वीरास्पदं श्रीमहावीरजिनगृहं आप्तसंमतं सद्गुरुणामनुमतं इदं प्रत्यक्षं ते प्रागुक्ताः श्रावकाः कारयाञ्चक्रिरे विरचयाम्बभूवुः ॥ अथ तत्रान्यदेवगृहसद्भावेपि तद बहुमानादपरविधापनेन तेषां भगवदाशातनाप्रसङ्गात्किमिति तत्कारयामासुरित्यत आह ॥
क्षुद्राणां लिङ्गिनामाचीर्णानि सिद्धान्तोक्तमपि श्रीमहावीरस्य षष्ठं गर्भापहारकल्याण लज्जनीयत्वान्न कर्त्तव्यमित्यादिका आचरणास्ततश्चाचीर्णानि च कुबोधश्च कुग्रहश्च तैर्हते दूषिते स्वं धार्मिकं तन्वति वयमेव धार्मिका इति सर्वत्र प्रत्याख्यापयति द्विष्टं मात्सर्यवत् अनिष्टमपायकरणप्रवणं निकृष्टमधमं धृष्टं पापं कुर्वतोऽनुपजायमानशङ्ख मनश्चित्तं यस्य स तथा ॥ - तस्मिन् क्लिष्टे धार्मिकान् प्रति क्रुराध्यवसाये एवंविधे सम्प्रति भूयसि प्रभूते जने लोके सति अथ यद्येवंविधो भूयान् लोकः सम्प्रति तंतः किमायातमपरचैत्यविधापनस्येत्यत आह ॥ तादृक्लोकपरिग्रहेण प्रागुक्तविशेषणविशिष्टजनाधीनत्वेन निबिडद्वेषोग्ररागग्रहेण तीव्रगुणवान्मात्सर्योदग्रस्वमतानुरागाभिनिवेशेन ग्रस्ता वशीकृता ये एतद्गुरवः प्रागभिहत जनाचार्यास्तत्सात्कृतेषु ॥
देये साति तद्धितः ॥ ततश्चगुरुदक्षिणीकरणेन तदायतीकृतेषु जिनावासेषु चैत्यसदनेषु भूम्ना बाहुल्येन अधुना संजातेषु सत्सु ॥ ननु यदि सम्प्रति जिनालया दुष्टलोकपरिगृहीता लिङ्गिगुरुणामायत्ताश्च तत्किमेतावता द्वेषकारित्वादागमविरुद्धाधायित्वाच्च तेषामेव पातकं भविष्यति भवतां तु तत्र पूजावन्दनादिकं कुर्वाणानां धर्म एवेत्यत आह ॥
तत्त्वद्वेषविशेषः सन्मार्गमात्सर्यप्रकर्ष एषः यदऽसन्मार्गे कुमार्गे प्रवृत्तिर्गमनपूजनव्यवहारः लिङ्गिपरिगृहीतो हि जिनालयादिः सर्वोप्यसन्मार्गस्ततश्च सत्पथमवबुध्यमाना अपि यन्नित्यमसन्मार्गे प्रवर्तन्ते तन्नूनं तेषां सत्पथे द्वेषो मनसि विपरिवर्तन्ते ॥
कथमन्यथा तत्रैव प्रवृत्तिरतस्तत्र प्रवर्त्तमानानां धार्मिकाणामप्यविध्यनुमोदनमुग्धजन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org