________________
विभाग-१, बृहद्वृत्तिः
१२५ स्थिरीकरणादिना पापमेव ॥ सदाग्रहणात् कदाचिदपवादेन तत्रापि प्रवृत्तिरनुज्ञाता सेयं सैषा धर्मविरोधेन सद्धर्मविद्वेषेण बोधविधुतिः सद्बोधनाशो यत्सत्पथे सन्मार्गे कुपथेन साम्यधीस्तुल्यताबुद्धिः ॥
सत्पथकुपथयोालोकतमसोरिव महदन्तरं सत्पथपरिज्ञानेऽपि नित्यं कुपथप्रवृत्तौ तु तेषां सत्पथकुपथयोः साधारण्यं चेतसि निविशमानं लक्ष्यते तथा च नूनं ते धर्मविद्वेषिणः सद्बोधविधुरा इति ॥ यस्मादेवं तस्मात् सत्पथं विधिमार्गमुद्विभावयिषुभिर्विधिचैत्यविधापनेन प्रकाशयद्भिरस्माभिः कृत्यं कर्त्तव्यं कृतं विहितं स्यात् ॥ . विधिमार्गमासेदुषां ह्येतदेव कर्त्तव्यं यत् कुपथपाथोधिपातुकभविकोद्विधीर्षया विधिमार्गस्य प्रकाशनं न चासौ सम्प्रति पृथग्विधिचैत्यनिर्मापणं विना प्रकाशयितुं शक्यते ॥ शेष चैत्यानां प्रायेण सर्वेषामपि लिङ्गिपरिग्रहेणाविधिना घ्रातत्वात् ॥ इति हेतौ अस्माद्धेतोस्ते वीरास्पदमित्यादि पूर्वव्याख्यातमित्यानुषङ्गिकवृत्तद्वयार्थः ॥ ___ साम्प्रतं प्रकृतमुच्यते ॥ सङ्घनाकृतचैत्यकूटेषु पतितस्य प्रतिबद्धस्य कथञ्चित् सत्पथं प्रतिपत्सोरपि तत्र गोष्ठिकत्वादिना स्वकारितप्रतिमाममत्वादिना वा नियमितत्वात्ततो निर्गन्तुमशक्तस्येति यावत् ॥ . द्वितीयपक्षेपतितस्य बद्धस्य तथान्तस्तरां ताम्यतः सन्मार्गबहुमानित्वात्ततो निर्जिगमिषोरपि निर्गमाऽलाभात् ॥ भविता कदाचित्तद्दिनं यत्रैतस्मादसत्पथादहं निर्गमिष्यामीत्येवमतिशयेनान्तःकरणमध्ये चेतोमर्मणीति यावत् खिद्यमानस्य ॥
नन्वेवं चेन्निर्गन्तं तस्य तापः तर्हि किं चैत्येषु गोष्ठिकत्वादिप्रतिबन्धेनेत्यत आह न शक्तस्य न क्षमस्य स्पन्दितुं चलितुं ततो निर्गमनाय बहिश्चेष्टयोद्योगमात्रमपि कर्तुमिति यावत् ॥ कुत इत्यत आह ॥ तच्छब्देन सङ्घः परामृश्यते तस्य सङ्घस्य मुद्राश्चतुर्दश्यादिकाः पर्वतिथय एतदाचार्यसंवादेन तपोनियमादिकृते प्रमाणीकर्तव्या नान्यथेत्येवमादिका व्यवस्था ॥ यदाह ॥
चैत्येऽस्मिन्नथवामुकत्र वसतौ तिथ्यः क्रियन्ते यथा, सर्वत्रैव चतुर्दशीप्रभृतयः कार्यास्तथा नान्यथा। भिक्षा न वृत्तिनां न चात्र वसतिया तथामी यतो, निर्वास्या न च मन्दिरं भगवतः सोढव्यमेतन्मते ॥ एषां न केनचिदहो सविधे विधेया, धर्मश्रुतिव्रतगृहीतिरनीतिभाजाम्। देयं न चैत्यगृहवेशनमन्यथा वो, ऽकाण्डेन मूर्द्धनि पतिष्यति राजदण्डः ॥ एवमाद्याः स्वतोऽमुद्रैः क्षुदैर्मुद्राः प्रवर्तिताः । वराकान् मुग्धसारङ्गान्, हा बध्धुं वागुरा इव ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org