________________
श्री सङ्घपट्टकः
ततश्च तन्मुद्रैव दृढं निबिडं पाशो मृगादिबन्धनार्थं दवरकादिनिर्मितग्रन्थिविशेषस्तेन बन्धनं संयमनं तद्वतस्तदन्वितस्य स हि सङ्घमुद्रामुदितस्ततो निर्गमनवार्तामपि कस्यापि पुरतो वक्तुं न शक्नोति किं पुनर्निर्गन्तुमित्यर्थः ॥
१२६
तथा एतस्य सङ्घस्य क्रमस्तन्निद्दिष्टा रात्रिस्नात्रादिका परिपाटी तत्स्थायिनस्तद्वर्त्तिनः द्वितीयपक्षे तु हरिणं प्रहारार्थमुत्क्षिप्य सज्जित: पादक्रमस्तद्गोचरगतस्येति ॥ ततोऽयमर्थः ॥ यथा व्याघ्रग्रासविषयस्य तत्क्रमगोचरस्य तत्रापि कूटपतितस्य अन्यथा हि पलाय्यापि कथञ्चित्ततो मोक्षः संभाव्यते तत्रापि निर्जिगमिषया चेतसि ताम्यतोऽपि पाशसंयमितत्वेनाङ्गस्पन्दनमात्रमपि कर्तुमशक्तस्य हरिणव्रातस्य न कथञ्चित्ततो मोक्षः संभवति ॥
एवमस्यापि चैत्यप्रतिबद्धस्य सन्मार्गस्पृहया निर्गन्तु मनसि खिद्यमानस्यापि सङ्घमुद्रया कीलितत्वेन सत्पथाभ्युपगमं प्रत्युद्यन्तुमप्यशक्नुवतस्तत्क्रममनतिक्रामतः सम्प्रतितन सङ्घाज्ञावश्यस्य जन्तुसन्दोहस्य निर्वाणं न सञ्जायत इति ।
अथ कथमिह सङ्घस्य क्रूरतया व्याघ्रेण रूपणं ॥ तत्त्वे हि तस्य भगवन्नमस्कारो न घटामियात् ॥ श्रूयते च तीर्थप्रवर्त्तनाऽनेहसि नमो तित्थस्सेत्याद्यागमवचनप्रामाण्येन भगवतस्तन्नमस्कारविधानं तत्कथमेतदुपपद्यत इति चेत् न ॥
सदृग्नामश्रवणाद् सङ्क्षेपि प्रकृते भवतः सङ्घभ्रान्तेः ॥ अन्यो हि सो भगवन्नमस्कारविषयोऽन्यश्चाधुनिको भवदभिमतः ॥ तथाहि ॥ गुणगुणीनोः कथञ्चित्तादात्म्येन ज्ञानादिगुणसमुदायरूपः शुद्धपथप्रथनबद्धादरोऽनुल्लङ्घितभगवच्छासनः साध्वादिः सिद्धान्तै सङ्घ इत्यभिधीयते ॥ यदाह ॥ सव्वोवि नाणदंसणचरणगुणविभुसियाण समणाणं ॥ समुदाओ होइ सङ्घो, गुणसङ्घाउ ति काउणं ॥
एवंविधश्च सङ्घो भगवन्नमस्कारविषयः ॥ स हि भगवान्नमस्यदखण्डाखण्डलमौलिमालाललितक्रमकमलोपि तीर्थस्य साक्षात्स्त्रष्टापि प्राक्तनजन्मनिर्वर्तितभावसङ्घवात्सल्यादार्हन्त्यं मयावाप्तमिति कृतज्ञता प्रदिदर्शयिषया सद्बहुमानदर्शनाच्च लोकोप्येनं बहु मन्यते इति जिज्ञापयिषया च तं नमस्कुरुते ॥
गुणसमुदाओ सङ्घो पवयण तित्थं ति हुंति गठ्ठा, तित्थयरोवि हु एयं, नमए गुरुभावओ चेव ।
तप्पुधिया अरहया, पूइयपूया य विणयकम्मं च, कयकिच्चोवि जह कहं कहेइ नमए तहा तित्थं ॥
इतरथा कृतकृत्यत्वेन भगवतो यथाकथञ्चित्तत्रैव भवे मुक्तिसंभवात्किमनेनेति सांप्रतिकस्तु भवदभिप्रेतउन्मार्गप्रज्ञापकत्वेन सन्मार्गप्रणाशकत्वेन जिनाज्ञासर्वस्वलुण्टाकत्वेन यति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org