________________
१२७
विभाग-१, बृहद्वृत्तिः धर्ममाणिक्यकुट्टाकत्वेन च गुणसमुदायरूपत्वस्य सङ्घलक्षणस्याभावान्न सङ्घः ॥ यदुक्तम् ॥
केइ उम्मग्गठ्ठियं उस्सुत्तपस्वयं बहुं लोयं । दटुं भणंति सङ्घ सङ्घसरूवं अयाणंता ॥ सुहसीलाओ सछंदचारिणो वेरिणो सिवपहस्स।
आणाभट्ठाओ बहुजणाओ मा भणह सङ्घोत्ति ॥ परं बहुकीकशसङ्घातरूपत्वात्सोपि सङ्घ इत्यभिधया लोकेऽभिधीयत इति मुग्ध नाम्ना विप्रलब्धोसि ॥ यदुक्तम् ॥
एक्को साहू एक्का वि साहुणी सावओ य सङ्घीय ।
आणाजुत्तो सङ्घो सेसो पुण अट्ठिसङ्घाओ॥ अतः सङ्घलक्षणाभावान्नायं बहुमानमर्हति तद्वहुमानादिकारिणो भगवत्प्रत्यनीकादिभावेनाभिधानात् ॥ यदुक्तम् ॥
आणाए अवंट्टतं जो उववूहिज्ज मोहदोसेणं । तित्थयरस्स सुयस्स य, सङ्घस्स य पच्चणीओ सो ॥ तथा ॥ जो साहिज्जे वट्टइ आणाभङ्गे पयट्टमाणाणं ।
मणवायाकाएहि समाणदोसं तयं बिंति ॥ . . अत एव सुखशीलतानुरागादेरसङ्घमपि सङ्घ इत्यभिदधतां प्रायश्चितं प्रतिपादितं सिद्धान्ते ॥ यदाह॥
अस्सङ्घ सङ्घ जे, भणंति रागेण अहव दोसेण । छेओ वा मूलं वा, पच्छित्तं जायए तेसिं ॥
तस्माद् युक्तं क्रूरतया प्रकृतसङ्घस्य व्याघ्रतया रूपणम् ॥ तथाच सिद्धस्तद्वशस्य प्राणिगणस्य मोक्षाभाव इति ॥ नन्वेवं तर्हि सिद्धान्तोक्त लक्षणस्य सङ्घस्य संप्रत्यभावाद्भवन्मते तीर्थोच्छेदः प्रसज्यत इति चेत् ॥
अथ केन प्रमाणेन भवता तदभावो निरणायि ॥ किं प्रत्यक्षेण उतानुमानेन अहोस्विदागमेनेति त्रयः कल्पास्त्रिकूटाचलकूटा इव मन्दैर्दुरारोहा प्ररोहंति ॥ तत्र न तावत्प्रत्यक्षेण अर्वाग्दृशां प्रत्यक्षेण सर्वत्र तद्भावस्य निर्णेतुमशक्यत्वात्तथात्वे च सर्वं सर्वज्ञत्वापत्तेः ॥ . ततश्च क्वचिद्देशकालादौ तथाभूतस्यापि सङ्घस्य संभावनास्पदत्वान्न प्रत्यक्षेण तदभावोऽवसेयः ॥ अथानुमानेनेति द्वितीयः कल्पः ॥ तथापि किं तदनुमानम् ॥
भवद्विवक्षितः सङ्घः सम्प्रति नास्ति क्वचिदनुपलभ्यमानत्वात् प्रध्वस्तघटवदित्यनुमानमस्तीतिचेत् नाऽसर्वविदामनुपलम्भोपलम्भयोनियतविषयत्वादेकत्र तदनुपलम्भेन सर्वत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org