________________
१२८
तदभावासिद्धेः
तथा सिद्धान्तप्रामाणाण्येन परीक्षापुरःसरं मृगयमाणैर्मध्यस्थैः कैश्चिच्चारुविचारचातुरीतल्पैरल्पैरिदानीमपि भावसङ्घस्योपलंभादनुपलभ्यमानत्वादित्यसिद्धी हेतुः ॥ कुट्यदिव्यवहितानां भूनिखातादीनां च विद्यमानानामप्यस्मदादिभिरनुपलंभादनैकांतिकश्च ॥ तस्मान्नानुमानेनापि तदभावावगमः ॥
श्री सङ्घट्टकः
नाप्यागमेनेति तृतीयः कल्पः ॥ ते न हि सम्यग्ज्ञानदर्शनचारित्रमस्य भगवदाज्ञाप्रज्ञापननिष्णातस्य भावसङ्घस्य बहुमुण्डादिवचनतोऽल्पीयस्तया दुःषमाकालेपि प्रतिपादनात् ॥ यदुक्तम् ॥
एगन्तेणं चिय लोगनायसारे ण एत्थ होयव्वं । बहुमुण्डाइवयणाओ, आणाइत्तो इह पमाणं ॥ निम्मलनाणपहाणो, दंसणसुद्धो चरित्तगुणजुत्तो । तित्थयराणाथिज्जो, वुच्चइ एयारिसो सङ्घ ॥ आगमभणियं जो पन्नवेइ सद्दहइ कुणइ जहसति । तेलुक्कवंदणिज्जो, दुसमकालेवि सो सङ्घो ॥
अन्यथा दुप्पसहन्तं चरणमित्यादेरादुःषमान्तं चारित्रानुवृत्तिप्रतिपादकस्य भगवद्वचनस्य व्याघातापत्तेः ॥ भावसङ्घमन्तरेण तावन्तमनेहसं चारित्रानुवृत्तेरसम्भवात् ॥
ननु भवतु सिद्धान्तप्रामाण्यादिदानीमपि भावसङ्घोऽल्पीयांस्तथापि मया तावन्न दृश्यत इति चेन्न ॥ अर्वाग्दर्शित्वेन मात्सर्येण वा भवतस्तददर्शनस्यान्यथासिद्धत्वात् ॥ दृश्यते च कषायकलुषितचक्षुषां संन्निकर्षेपि निषेदुषो मनुष्यादेरनुपलम्भः ॥
ततो यदि त्वं शुद्धपथस्पृहयालुस्तदा मात्सर्यमुत्सार्य माध्यस्थमास्थाय सूक्ष्मप्रेक्षया परीक्षस्व भावसङ्कं येन क्वचित्प्रेक्षसे ॥ मैवमेव नास्तिकतामवलम्ब्य भावाम्भोधौ मंक्षीरिति ॥ तस्माद् भगवद्वचनान्यथानुपपत्त्या संप्रत्यप्यस्ति भावसङ्घः स एव प्रेक्षावता दुःसङ्घपरिहारेणाभ्युपेतव्यः ॥
एतेन गुणिद्वेषधीप्रसाधनाय यदुक्तं मूलपूर्वपक्षे इदानीं हि भगवद्विरहादित्यादि इति द्वेष एवैतेषु श्रेयानित्यन्तं तदपि प्रतिक्षिप्तमवसेयम् ॥ भगवद्विरहेपि सन्मार्गपरिज्ञानोपायानां बहुशस्तदागमेऽभिधानेन तदर्थिना तत्परिज्ञानसिद्धेः ॥ बहुजनप्रवृत्तेश्च मोक्षपथतयाभ्युपगमे लौकिकधर्मस्यैवाभ्युपगमापत्तेः ॥ तत्प्रवृत्तेस्तत्रैवातिभूयस्त्वात् ॥ महाजनो येनेत्यादिना लौकिकन्यायेन तत्प्रवृत्तेः प्रामाण्यसमर्थनं त्वात्मकदर्थनमेव भवतः ॥
तथाहि महाजन इत्यत्र वृद्धप्रामाणिकपुरुषवचनश्चेन्महच्छब्दस्तदा न विप्रतिपद्यामहे ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org