________________
विभाग-१, बृहद्वृत्तिः
१२९ वृद्धप्रामाणिकगणधरादिपुरुषशार्दुलपदक्षुण्णस्यैव पथोऽस्माभिरपि मोक्षमार्गत्वेनाभ्युपगमात् ॥ बह्वर्थश्चेत्तर्हि बहुजनपडिवत्तीत्यादिना लोकोत्तरवचसैवास्य न्यायस्य बाधितत्वेनाऽनवकाशात् ॥ ___ तथा यदि परगृहवासिनो महात्मानः सुविहिताः सत्पथकुपथविभागज्ञापनायारक्तद्विष्टतया भव्येभ्यः सुविहितदुर्विहितगुणदोषाविर्भावकं यथावस्थितमागमार्थं व्याचक्षते ॥ नैतावता त उपालम्भमर्हन्ति ॥ आत्मोत्कर्षपरापकर्षविख्यापयिषयैव तद्व्यख्यानस्य सुटुविउज्जममाणमित्यादिनात्मस्तुतिपरनिन्दाभावेन यतिनां दोषतयाभिधानात् ॥
अन्यथा तीर्थकरगणधरादीनामप्यसंयतदोषप्रतिपादकमागमग्रन्थं ग्रनतां परनिन्दकत्वेन दूषणापत्तेः ॥ ऐदम्युगीनसङ्घप्रवृतिपरिहारेण च सङ्घबाह्यत्वप्रतिपादनममीषां भूषणं न तु दुषणम् ॥ तत्प्रवृत्तेरुत्सूत्रत्वेन तत्कारिणां दारुणदुर्गतिविपाकश्रुत्या तत्परिहारेण प्रकृतसङ्घ बाह्यत्वस्यैव तेषां चेतसि रुचितत्वात्तदन्तर्भावे तु तेषामपि तत्प्रवृत्तिवतिष्णुतयाऽनन्तभवाटवीपर्यटनप्रसङ्गात् ॥
अत आधुनिकसङ्घबाह्यत्वेनैव तेषां गुणित्वं तथा च तेषूच्छेदबुद्धिमहापापीयसामेव भवति ॥ तस्मात्तेषु मुक्त्यर्थिनां प्रमोद एव विधातव्यो न तनीयस्यापि द्वेषधीरिति व्यवस्थितम् ॥ यदपि पूर्वपक्षे गौतमादिषु यतिशब्दप्रवृत्तित्वात्कथं निर्गुणेष्विदानीन्तनसाधुषु प्रवर्तत इत्याशक्य यथा कल्पवृक्षगुणवैकल्ये निम्बादिषु तरुशब्दप्रवृत्तिरित्यादिना दृष्टान्तद्वयेनेदानीन्तनमुनिषु यतिशब्दप्रवृत्तिसमर्थनं तदप्यऽसमीचीनम् ॥
प्रवर्त्ततां हि नाम कल्पवृक्षगुणाऽयोगेपि निम्बादिषु तरुशब्दस्तत्प्रवृत्तिनिमितस्य शाखादिमत्त्वस्योभयत्राप्यनुगमात् ॥ इह तु यतिशब्दप्रवृत्तिनिमित्तस्य लिङ्गिष्वनुपपत्तेः कथं तच्छब्दस्तत्र प्रवर्तते ॥
तथाहि यमुपरम इति पाठाद्यच्छत्युपरमति पापेभ्य इति पापोपरमो यद्वा यती प्रयत्न इति धातुपाठात् यतते क्रियास्वितियतिरिति क्षेत्रकालाद्यपेक्षोऽनुष्ठानप्रयत्नो यतिशब्दप्रवृत्तिनिमित्तम् ॥ ततश्च यः पापोपरतो यश्च बलकालादिसामग्रीसमग्रः सततमशठोऽनुष्ठाने समुत्तिष्ठते योपि देशकालसंहननामवैषम्यात्संपूर्णमनुष्ठानमनुष्ठातुमपारयन्नपि निजशरीरशक्त्यादिकमगोपयन् शाठ्यपरिहारेण क्रियासु यतते तत्र सर्वत्रापि यतिशब्दो गौतमादिवत् प्रवर्तते प्रवृत्तिनिमितस्यभावात् ॥ यदुक्तम् ॥
मत्वा भवनैर्गुण्यं, यच्छत्युपरमति येन पापेभ्यः । कृतिकारणानुमितिभिस्तेन यतिमुदाहरन्ति जिनाः ॥ तथा ॥ नाणेण दंसणेणं, चारित्तेणं तवेण विरिणए । जे साहयंति मुक्खं, ते साहूभावजइणोत्ति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org