________________
१३०
जो हुज्जउ असमत्थो, रोगेण व पिल्लिओ जुरियदेहो । सव्वमवि जहाभणियं, कयाइ न तरिज्ज काउं जो ॥ सोविय निययपरक्कम, ववसाय धिईबलं अगूहंतो । मोत्तूण कूडचरियं, जई जयतो अवस्सजइ ॥
ये तु पापव्यावृत्ताः शक्तिमन्तोपि च सांप्रतिकरूढ्या सर्वथानुष्ठानविकलास्तेषु प्रकटकपटकूटेषु प्रत्यक्षपापकूटेषु लिङ्गिदुर्दुरूढेषु निमित्ताभावाद्यति शब्दः प्रवर्त्तमानः कथं कक्षां बध्नीयात् ॥ यदुक्तम् ॥
इसीलिंगजुया खलु, दुक्खंतकरा जिणेहिं पन्नत्ता । भावपहाणा जइणो, न उ अन्ने दव्वलिङ्गधरा ॥
तस्मान्न निम्बादिषु तरुशब्दप्रवृत्तिद्रष्टान्तावष्टम्भेन लिङ्गिषु यतिशब्दप्रवृत्तिरुपपद्यते ॥ यश्च यथाजात्यमणिगुणवैगुण्येपि काचे मणिशब्दप्रयोग इति द्वितीयदृष्टान्तोपन्यासस्तत्र सम्प्रतिपत्तिरुत्तरम् ॥
श्री सङ्घपट्टकः
काचो हि न वस्तुतो मणिशब्दवाच्यः ॥ परीक्षाशास्त्रप्रसिद्धस्य तदसाधारणलक्षणस्य तत्प्रवृत्तिनिमित्तस्यतत्राभावात् ॥ नीलत्वादिकिरणनिकुरम्बकरम्बितत्वादिबाह्यसाधारणधर्मदर्शनात्त्वऽज्ञास्तत्रापि मणिशब्दं प्रयुञ्जते ॥
.
एवं यत्याभासेष्वप्युक्तन्यायेन यतिशब्दप्रवृत्तिनिमित्ताभावेपि बाह्यरजोहरणादिलिङ्गिनेपथ्यादिसाधारणधर्मोपलंभात् भ्रान्ता यतिशब्दं प्रवर्त्तयन्ति ॥ तस्मात्सुविहितेष्वेव कालाद्यनुरूपं यतमानेषु वास्तवो यतिशब्दप्रयोग इति वृत्तार्थः ॥३३॥
तदेवमौदेशिक भोजनादिद्वारदशकेन लिङ्गिभिः प्रज्ञापितस्य धर्मस्योत्पथत्वप्रकाशेनन जडानां चेतसि कोपाविर्भावं संभावंयत्तत्क्षमणपुरस्सरं तत्प्रदर्शनप्रयोजनमाविश्चिकीर्षुराह ॥ ॥ मूलकाव्यम् ॥
इत्थं मिथ्यापथकथनया तथ्ययापीह कश्चिन्, मेदं ज्ञासीदनुचितमथो मा कुपत्कोपि यस्मात् । जैनभ्रान्त्या कुपथपतितान् प्रेक्ष्य नुंस्तत्प्रमोहा
पोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥३४॥
Jain Education International
टीका:-इत्थं प्राक्प्रतिपादितप्रकारेण मिथ्यापथकथनया चैत्यवासीप्ररूपितोत्सूत्रमार्गप्रकटनया करणभूतया तथ्ययापि यथार्थयापि असत्यया हि तया कोपोत्पादाद्यपि कस्यापि संभाव्यत इत्यपि शब्दार्थः ॥
For Personal & Private Use Only
www.jainelibrary.org