________________
विभाग-१, बृहद्वृत्तिः
१३१ इह लोके प्रवचने वा कश्चिज्जिनशानस्थो मा ज्ञासीत् मा मंस्त यत् इदं मिथ्यापथकुपथत्वप्रकटनं अनुचितमसङ्गतम् ॥ यदि हीदं रागद्वेषाभ्यामतथ्यं विधीयेत तदा नौचित्यं स्यान्नचैवमस्ति ॥अथो इत्यानन्तर्येऽव्ययम् ॥ तेनाऽनुचितज्ञानानन्तरं मा कुपत् मा क्रुधत् कोपि कश्चित् ॥ ___ यदि ह्येतदनुचितं स्यात्तदा तद्ज्ञानानन्तरं कोपोपि कर्तुं कथञ्चित् युज्येत ॥ न चैवं तस्मान्न कोपनीयम् ॥अथ यद्येवं मिथ्यापथकथनेन परेषां कोपाविर्भावशङ्का तदासौ न कथनीय एव ॥ परं सङ्क्लेशहेतोः सत्यस्यापि वचनस्यावक्तव्यत्वेनाभिधानात् ॥ यदुक्तम् ॥ सच्चावि सा न वत्तव्वा, जओ पावस्स आगमो ॥ इत्यत आह ॥ यस्माद्यतो हेतोर्जेनभ्रान्त्या साधुसाध्वीश्रावकश्राविका चैत्याद्याकारदर्शनादार्हतमेतत्प्रवचनमिति मिथ्याज्ञानेन न हि लिङ्ग्यादयस्तत्त्वत आर्हता उक्तन्यायेन तेषां तथात्वस्यापाकरणात् ॥ ____ ततो यथा हृत्पूरपूरितोदराः सकलमुपलादिजालं काञ्चनतयाऽध्यवास्यन्ति तथा तेपि जडा:कुवासनावासितान्तःकरणा वस्तुतोऽनार्हतमप्येतत् लिङ्गिवर्हितमिति विपर्यस्यन्तीति भवति जैनभ्रान्तिः ॥
तया कुपथपतितान् कुमार्गप्रस्थितान् नन् मानवान् प्रेक्ष्य अवलोक्य तत्प्रमोहापोहाय कुपथपतितनरप्रागुक्तप्रबलमिथ्याज्ञानापनोदाय इदं एतल्लिङ्गिनां मिथ्यापथस्वरूपं किमपि दिग्मानं सकलस्य तस्याग्दिर्शिभिर्जिह्वाशतेनापि वक्तुमशक्यत्वात् ॥ . कृपया कथममी मूढास्तीर्थाभावकदर्थिताः कुपथस्वरूपं विज्ञाय तत्परिहारेण सत्पथमभ्युपेत्य भवोदधिं तरिष्यन्तीत्यनुकम्पया कल्पितं भव्यं प्रतिपिपादयिषया सकलं संकलय्य प्रथमं चेतसि मज्जितं ततो जल्पितं अक्षररचनया दृब्धम् ॥ तदन्तरेण परस्य पुरतः सम्यक् प्रतिपादयितुमशक्यत्वात् ॥
च समुच्चये ॥ एतेन सच्चावीत्याद्यागमबलेन परसङ्क्लेशनिबन्धनं सत्यमपि वचो न वचनीयमिति यदाशङ्कितम् ॥ तदप्यपाकृतम् अस्यागमस्यान्यविषयत्वात् ॥ तथाहि ॥ धर्मायोग्यं प्रति हितैषिणापि सत्यमपि हितोपदेशवचनं न भाषणीयम् ॥ तस्य कर्मबन्धहेतुत्वात् ॥ तथा क्वचिदटव्यादौ तस्थूषा मुनिना देदृशुषापिमृगं मृगयमाणस्य व्याधस्यानुयुञ्जानस्यापि तस्य पुरतो मृगदर्शनं सत्यमपि नाभिधातव्यम् ॥
तद्विधातनिमितत्वात् ॥ किन्तु तत्र तद्विपरीतं वक्तव्यं तद्धितत्वात् ॥ तदेव वचनं तत्र सत्यम् ॥ भूतहितमितिवचनात् ॥ इत्येवमादिरस्यागमस्य विषयः ॥ इह तु पार्श्वस्थादिमलिम्लुचैर्वशीकृत्योत्पथेन संसारपल्ली नीयमानं नीराजकमिव जननिवहमवेक्ष्य केनापि महासत्त्वेन विधीयमानस्य पूत्कारविभ्रमं बिभ्रतस्तदुत्पथत्वजल्पनस्य तेषां सङ्क्लेशहेतुत्वेपि प्रवचन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org