________________
विभाग- १, बृहद्वृत्तिः
नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा, मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ॥२७॥
१०७
टीका:-यत एव नामैते जिनपथं प्रति दुष्टा अतोऽस्मादेतोः ॥ किमित्याह ॥ तेषां वचांसि कुपथप्रतिपादकानि वचनानि कुरुते विधत्ते कर्णे स्वश्रवणे सकर्णः सश्रोतः अथ च सहृदयः कथं केन प्रकारेण न कथञ्चिदित्यर्थः ॥
न हि सकर्णस्य कर्णकटूनिस्पृष्टपरमर्माणि वचनानि खलानां श्रोतुं युक्तानि ॥ किन्तु कर्णयोरेतदेव फलं यत् पीयूषवर्षुका अपहसितमुक्ताः सतां सूक्तयः श्रूयन्ते ॥ अथ च सकर्णस्य प्रेक्षावतःकुपथवर्त्तिनां भाषितानि कर्णे कर्तुं न युज्यन्ते ॥ तच्छ्रवणस्य साधूनाम मिथ्यात्वनिबन्धनत्वेनाभिधानात् ॥ यदुक्तम् ॥ एव्वुच्चिय तेर्सि मुवस्सयंमि तुडिवससमागओ साहू || तेसिं धम्मकहाए कुणइ विधायं सइबलंमि ॥ इहरा ओएइ कन्ने तस्सवणा मिच्छमेइ साहूवि ॥ अवलोकिमु जो सढ्ढो जीवाजीवाइअणभिणो ॥
कीदृशामित्याह ॥ दुर्भेदो निबिडत्वाद् दुरुच्छेदः स्फुरन्मनसि सततावस्थिततया जागरुक उग्रो दृढः कुग्रहश्चैत्यवासादिप्रतिष्ठापनविषयो मिथ्याभिनिवेश स एवतमस्तोमः सत्पथदर्शनांतदुर्द्धायकत्वादन्धतमसपटलं तेन अस्तं छन्नं धीः प्रेक्षा सैव सत्पथप्रकाशकत्वाच्चक्षुर्लोचनं येषां ते तथा तेषाम् ॥ यथा तमस्तोमेन तिरोहितं चक्षुः पन्थानं न पश्यति तथा तेषामपि धी: ग्र तिरस्कृतत्वान्नसन्मार्गं मृगयते ॥
सिद्धान्तद्विषतां तद्विपर्यस्तार्थप्ररूपणया तदुच्छेदप्रवृत्तत्वादागमवैरिणां निरंतरमहामोहात् व्यसनातिरेकाऽविवेकात् अहमिति निपातोऽस्मदर्थे ॥ ततश्च वयमेव श्रेष्ठा नास्मत्समः कश्चिदित्यात्मानं मन्यते ॥ ये ते अहंमानिनस्तेषां विवेकिनां हि गभीरत्वेन महति गुणगणे सत्यप्यनुत्सेकात् ॥
मूढानां तु तुच्छतया स्तोकेपि तस्मिन् जगतोपि तृणतया मननात् ॥ तदुक्तम् ॥ जह उंदुरस्स एक्केण विहिणादोवि वावडाह तथा ॥ तह असुणिय परमत्था थेवेणविउत्तुणाहुति ॥
तथा स्वयमात्मना नष्टाः सुखलोलतयाऽनवरतमन्याय्ये पथि प्रवर्त्तमाना जनपुरतः स्वं . संस्थापयितुमशक्नुवन्तः क्व धर्मः क्व सम्प्रति व्रतिन इत्यादि नास्तिक्यं प्रतिपन्नास्तेषाम् अन्येषामात्मव्यतिरिक्तानां नाशनकृते नास्तितापादननिमित्तं बद्धोद्यमानाम् ॥ यदि ह्येतानप्यात्मना कथञ्चित्समीकुर्मस्तदा सुन्दरं भवत्यऽन्यथैते धार्मिकंमन्याः परुषवाग्भिरस्मान् संक्षिष्यन्तीत्याशयेन तन्नाशनाय विहितप्रयत्नानाम् ॥
. सदा सर्वदा मिथ्याचारा मुक्तिपथविपरीताचारा मिथ्यात्वाविरतिप्रमादकषायदुष्टयोगलक्षणाः अथवा लोकप्रलम्भनहेतुकबाह्येन्द्रियसंयमपुरस्सरं विषयप्रणिहितमनस्कत्वम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org