________________
१०६
श्री सङ्घपट्टकः सामग्रीभावेन संभूय क्रूरं सन्मार्गघातुकं मानसं चेतः अकारि निर्ममे ॥ ___ क्रूररूपस्य मनसो निर्माणं विधेयमत्र एतेनास्य मनस इतरमनोभिः साजात्यमपिनिरस्तमित्येतदपि संभावयामि । इतरमनोविलक्षणसामग्रीजन्यत्वेन वैजात्योपपत्तेः ॥ नहि मृत्पिण्डदण्डादितन्तुवेमादिविसदृशसामग्रीजन्ययोर्घटपटयोः साजात्यं नाम ॥ तथा च तन्मनसः कदाचिदपि न शुभभावतापत्तिः ॥ न हि भूनिंबस्य शर्कराभावः शिल्पिशतेनाप्यापादयितुं शक्यन्ते ॥ तत्कस्य हेतोः स्वस्वसामय्या विजातीयतयैव तयोरुत्पत्तेरिति ॥
अथवा मनःसिद्धमेव ॥ तस्य तु क्रूरत्वं विधेयं ॥ तच्च कालकूटादिभिः साध्यम् ॥ अथास्मिन्पक्षे क्रूरत्वस्यौपाधिकत्वात् अपगमप्रसङ्गो वस्त्रादिषु महारञ्जनरागस्य तथा दर्शनादितिचेत् न उपाधिकस्यापि धर्मस्य कयाचित्सामग्र्या जन्यमानस्यानपगमदर्शनात् ॥ यथा पट्टांशुकादिषु नीलीरागस्यौपाधिकस्यापि न कदाचिदपगम इति ॥ तदुपपन्नमेतन्नूनम् क्रूरमकारि मानसमिति ॥
अमुं प्रत्यक्षं दुर्मागं कुपथं आसेदुषामभ्युपेयुषाम् ॥ लिङ्गानां तद्भक्तानां चेतिशेषः ॥ ननु भवतु तेषां क्रूरं मनस्तथापि किं न छिन्नमित्यत आह ॥ दौरात्म्येन दुष्टाशयत्वेन निजघ्नुषामुच्चिच्छिदुषां जिनपथं भगवत्प्रणीतं सत्पथम् ॥ सन्मार्गवर्तिनामुपसर्गकरणेन वस्तुतो जिनमार्ग भ्रंशयद्भिस्तैर्बह्वस्माकं छिन्नमित्यर्थः ॥
अथ जिनपथं निजतां तेषां द्विजादीनामिव किंदर्शनान्तरपरिग्रहेण मतान्तरप्ररुपणा ॥ नेत्याह ॥ वाचा वचनेन स्वमतिकल्पितमप्यौद्देशिकभोजनादिमार्ग एष सःअयमेव स . जिनप्रणीतः पन्था नान्यः इति एवंप्रकारेण उचुषां अभिदधुषां न तेषां न दर्शनान्तरस्थाः स्वमतं प्ररुपयन्ति ॥ तत्स्थैजिनपथवर्तिनो जनस्य प्रतारयितुमशक्यत्वात् ॥
किंत्वस्मिन्नेव दर्शने वेषमात्रेण स्थिताः स्वप्ररुपितं कुमार्ग जैनमार्गतया वदन्तो मुग्धलोकं व्यामोहयन्तीत्यर्थः ॥ एतावता संरम्भेण सत्पथं प्रत्यतीवप्रत्यनीकत्वं तेषां प्रकटितम् ॥ इह च सेत्यत्र सशब्दाद्विसर्जनीयलोपे सन्धिप्रतिषेधेपि तदःपादपूरणे सन्धिरिति विशेषलक्षणेन सन्धिविधानमिति वृत्तार्थः ॥२६॥
अत इत्यन्तरापदं द्वयोरप्यनयोवृत्तयोः सम्बन्धयोजनार्थं तच्चाग्रिमवृत्तस्यादौ योक्ष्यते ॥ इदानीं तेषां वचनमात्रमपि विवेकिनः श्रोतुं न युज्यत इत्याह ॥
॥ मूलकाव्यम् ॥ दुर्भेदस्फुरदुग्रकुग्रहतमः स्तोमास्तधीचक्षुषाम्, सिद्धान्तद्विषतां निरंतरमहामोहादहमानिनाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org