________________
विभाग- १, बृहद्वृत्तिः
नामजैनानां तेऽमी सम्प्रति सर्वत्र प्रसृतत्वात्पुरोवर्त्तिनः नन्वित्यक्षमायां पार्श्ववर्तिसुहृदामन्त्रणे वा ॥ सर्वथा सर्वैः प्रकारै जिनपथप्रत्यर्थिनो भगवन्मतप्रत्यनीका न तु केनापि प्रकारेण तदनुकूला अपि ॥
जैनदर्शनोपहासतदभिमुखवैमुख्यापादनादिना जिनशासनानुपचयहेतुत्वेन वस्तुतस्तेषां तदुच्छेदकत्वात् ॥ येषां चापराधेन शशधरकरविशदे भगवच्छासने लोकोपहासविपर्यासादयो दोषाः प्रादुःष्यन्ति तेऽनन्तसंसारिणः सिद्धान्ते प्रतिपादिता महापापीयस्त्वात् ॥ यदुक्तम् ॥ दोसे जस्स अयसो आयासो पवयणेय अग्गहणं ॥ विप्परिणामो अप्पच्चओयकुच्छाय उप्पज्जे ॥ पवयणमणुपेहंतस्स निद्धंधस्सतस्स लुद्धस्स ॥ बहुमोहस्स भगवया संसारोणंतओ भणिओ ॥ इत्येतत्पदमग्रे वृत्तादौ संभंत्स्यत इति वृत्तद्वयार्थः ॥२५॥
१०५
साम्प्रतं कुपथवर्त्तिनां विधिपथं प्रत्यैकान्तिकीमात्यन्तिकीं निरुपमां च मनसो दुष्टतामुपलभ्य तदुत्पादं चेतरजनमनः कारणसामग्र्या असंभावयंस्तद्विलक्षणां तदुत्पादकारणसामग्रीं संभावनाद्वारेणाह ॥
॥ मूलकाव्यम् ॥ सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः, सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषाम्, दौरात्म्येन निजघ्नुषां जिनपथं वाचैष सेत्यूचुषां अतः ॥२६॥
ततः शब्दस्य प्राक्तनवृत्तस्थस्येह सम्बन्धात्तेन यतोऽमी सर्वथा सत्पथं प्रति दुष्टचेतसस्ततस्तस्माद्धेतोः किमित्याह ॥ नूनमिति संभावनायाम् । अहमेवं संभावयामि ॥ यावत्यति. दुष्टवस्तूनि जगति सन्ति तावद्भिर्दुमार्गमासेदुषां क्रूरं मानसमकारीति सम्बन्धः ॥
कथमन्यथा तन्मनसोऽतीवक्रूरता ॥ इतरजनमनः साधारणकारणसामग्रीत-स्तदनुपपत्तेः कारणानुरूपत्वात् कार्यस्य ॥ न हि न्यग्रोधबीजात्पिचुमन्दप्ररोहः ॥ कैस्तैरित्याह ॥ सर्वैः सकलैरुत्कटकालकूलपटलै नूतनत्वादत्युग्रसद्योघाति विषभेदसमूहैः || एक द्वित्र्यादिभिरनुत्कटैश्चकालकूटशकलै स्तत्पटलै र्वा तादृक् क्रूरमनसो जनयितुमशक्यत्वादेवमुक्तम् ॥ एव मुत्तरपदेष्वपि योज्यम् ॥
सकलकाटकूलपटलैरेव केवलैः प्रकृतमनसः कर्त्तुमशक्यत्वादपुण्योच्चयैरित्यादि वाक्यावतारः ॥ ततः सर्वैरखिलैरपुण्योच्चयैः पापराशिभिः सर्वव्यालकुलैरशेषाशीविषसन्दोहैः समस्तविधुराधिव्याधिदुष्टग्रहैः कृत्स्नव्यसनचेतः पीडागदमङ्गलादिपापग्रहैरेभिरखिलैर्दुष्टैरेक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org