________________
१०४
श्री सङ्घपट्टकः इति उक्तप्रकाराणि आदिशब्दादन्यान्यप्येवं प्रायाणि विडम्बनाव्यञ्जकानि वचांसि गृह्यन्ते ॥ ततश्च इत्यादीन्युद्धतानि बहुजनवदनस्य मुद्रयितुमशक्यत्वान्निःशङ्कतयोद्भटानि सर्वत्राऽस्खलितानीतियावत् ॥
सोपहासान्युत्प्रासभाञ्जि वचांसि वचनानि येषां ते तथा स्युर्भवेयुर्लोकाः प्राकृतजनाः कुतीर्थिकभाविताश्च जैनपथमत्सरिणः प्रेक्ष्य साक्षात्कृत्य येषामिति पदं तूर्यपादस्थितं सकलं वाक्यं दीपयति ॥ तेन येषां स्थितिमित्यादि सम्बन्ध्यते ॥
स्थितिं यत्यनुचितमसमञ्जसमाचारम् ॥ स्वरूपेणैव तावन्मत्सरिणः सर्वस्याप्युपहासं कुर्वन्ति किंपुनः सम्प्रति निरतिशयस्य जिनशासनस्य तत्रापि लिङ्गिनां तथारूपं वैशसव्यवहार वीक्ष्य कथङ्कारं न कुर्युरित्यर्थः ॥ .
तथा श्रुत्वा आकर्ण्य येषां स्थिति अन्ये अपरेऽभिमुखाः शेषदर्शनेभ्यः सकलोपपत्तिकलितमिदं जैनदर्शनं यतयोप्यत्र दर्शने शान्तात्मानः क्रियानिष्ठाश्चोपलभ्यन्ते ॥ ततोऽस्माकमपीदमङ्गीकर्तुमुचितमिति चेतसाभ्युपगमविषयीकृतजिनशासनास्तेपि आसतां तदपर .. इत्यपेरर्थः॥
श्रुतपथाज्जैनसिद्धान्तमार्गात् वैमुख्यं एतावन्तमनेहसं वयमज्ञाः स्यामः यदेतदेव तात्त्विकं धर्मदर्शनं निरपवादम् ॥ परं यत्राप्येवंविधासदाचारकारिणो विलोक्यन्ते ॥ तदालमनेन ताम्रहिरण्यमयालङ्कारदेशीयेनांतर्निः सारेण बहिर्मात्रमनोहरेण ॥ सर्वथा प्राक्स्वीकृतमेवास्माकं दर्शनं श्रेयः ॥ अहो जैना अन्यथा वादिनोऽन्यथाकारिण इत्यादिवचनसन्दर्भेण पराङ्मुखत्वं सर्वथा बहिर्भावमिति यावत् आतन्वते दर्शयन्ति ॥
. तथा येषां मिथ्योक्त्या मृषावचनेन ॥ ते हि स्खलिताचारत्वेन सर्वशङ्कितत्वात् असमञ्जसचेष्टितं प्रति केनचित् पृष्टास्सन्तो मलिम्लुचवदलीकं भाषन्ते ॥ यथा क एवमाह ॥ न वयमेवंविध कारिण इति ॥ ततश्च प्रत्यक्षोपलक्षितदोषापह्नवात्तादृशामेव बाहुल्येन दर्शनाच्च किमित्याह ॥
सुदृशोपि सम्यग्दृष्ट्यो जिनमतान्तःस्था अपि प्रायशः किंपुनरम्य इत्यपेरर्थः ॥बिभ्रति धारयन्ति कुर्वन्तीतियावत् मनश्चेतः संदेह इदंकिमेवमन्यथा वेत्युभयकोट्युल्लेख्यनवधारणज्ञानंस एवैकत्रानवस्थितरूपत्वसाधाहोला प्रेखा तया चलमेकत्राऽस्थास्नु ॥ यथादोलारूढं वस्तु तस्याश्चलत्वाच्चलमेवं सुदृशामपि मनः ॥
पूर्वं ह्यस्माभिर्जेनं मतं वाक्क्रिययोरविसंवादि स्वरूपं धर्मकथादिष्वाकर्णितमिदानीत्वंशेनापि न तथोपलभ्यते ॥ तत्किमिदं वास्तवमवास्तवं वेति संदेहाधिरूढत्वान्न जैनमते द्रढीमानं निबध्नाति ॥ अथवा सन्देहने करणभूतेन दोलावच्चलं ॥ तात्पर्य तु पूर्ववत् ॥ येषां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org