________________
१०३
विभाग-१, बृहवृत्तिः
तथा च तत्र नित्यस्थाः सततवासिनः ॥ सुविहिता हि देवद्रव्योपभोगभयाद्यतिनिमित्तनिर्मितत्वेन महासावद्यत्वाच्च मठे न वसन्ति किन्तु याचिते यादृशि तादृशि परगृहादावेव तत्रापि नानवरतं वसन्ति ।
नित्यवासित्वप्रसङ्गान्नित्यवासस्य च यतीनां श्राद्धादिप्रतिबन्धलाघवादिहेतत्वेन प्रतिषेधात् ॥ यदुक्तम् ॥ पडिबन्धो लहुयत्तं न जणुवयारो न देसविन्नाणं ॥ नाणाराहणमेए दोसा अविहारपक्खम्मि ॥
उद्यतविहारस्यैव ममकाराधुच्छेदनिमित्तत्वेनाभिधानात् ॥ यदाह ॥ अनिययवासो समुयाणचरिया अन्नाय उच्छं पयरिक्कयाय ॥ अप्पोवही कलहविवज्जणा य विहारचरिया इसिणं पसत्था ॥ ___एते तु सातलम्पटतया मठे नित्यकृतस्थितयो विलसन्तीति कथं न भवन्ति विटाः ॥ तथा शुचयो निर्मलाः पट्टतूलाः पट्टांशुकसंवीता हंसरुतादिमयाः शय्याविशेषाः ॥ यद्वा पट्टाः श्रीपादिदारुनिर्मितास्ताः शयनं शयनीयं येषां ते तथा ॥ साधवो हि कंबलादिसंस्तारक एव शेरते न पट्टतूल्यादिषु तासां प्रमार्जनाद्यशुद्धे विभूषासातशीलत्वव्यंजकत्वाल्लोकोपहासहेतुत्वाच्च ॥
एते तु तत्र शयाना विटत्वं प्रकयन्ति ॥ तथा सद्गब्दिकाद्यासनाः ॥ शोभनगब्दिकामसूरकादिविष्टरभाजः ॥ गब्दिकाद्युपवेशने च दोषा मुनीनां प्रागेवोक्ताः ॥ सारम्भा मठवाटिकाकृष्यादिमहासावधव्यापारकरणकारणप्रवणाः सपरिग्रहाः गृहिवद्वाणिज्यादिप्रयोजनेन धनधान्यस्नेहादिभाण्डसङ्ग्रह परायणाः ॥ - सविषयाश्चक्षुरादीन्द्रियानुकूलनर्तकीदर्शनताम्बूलास्वादनचन्दनाद्यङ्गरागगन्धर्वगीतश्रवणादिविषयसततानुषक्तचेतसः॥सेा विषयासक्तत्वात्कामुकवत्॥स्वाभिमतां योषितमन्येन सार्धमालापादिविदधानामवेक्ष्य तं प्रत्यक्षमाभाजः ॥ ___सकांक्षाः संभोगविलासाभ्यासात् प्रतिक्षणं नवनवोपजायमानरिंरसोत्कलिकाः ॥ आरम्भादयश्च यतीनां बहुदोषत्वादनेकथा निषिद्धा एव सदा सर्वदा ॥ विषयाणामनादिभवाभ्यासात्कदाचित्सन्मुनेरपि कस्यापि चेतो विकारमात्रं प्रादुष्यात् ॥ यदुक्तम् ॥ नवि अत्थि नविय होही पाएणं तिहुयणमि सो जीवो ॥ जो जुव्वणमणुपत्तो वियाररहिओ सया होइ ।।
न तु सर्वदा ॥ तदैव तेषां ज्ञानाङ्कशेन स्वचित्तमाकृष्य मिथ्यादुष्कृतादिप्रायश्चित्तप्रतिपत्तेः ॥ एते तु एगागियस्स दोसा, इत्थी साणे तहेव पडिणीए ॥ भिक्खविसोहिमहव्वय तम्हासबिइज्जए गमणमित्याद्यागमनिषिद्धैकाकिविचरणादिनाऽत्युच्छृङ्खलतया च सदैव मन्मथविकारभाज इति साधूक्तं साधु व्याजविटा इति ॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org