SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०२ श्री सङ्घपट्टकः इदानीं तेषां लोकोपहासादिपुरःसरं जिनपथपरिपंथित्वं वृत्तद्वयेन प्रकटयन्नाह ॥ ॥ मूलकाव्यम् ॥ देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे, नित्यस्थाः शुचिपट्टतूलिशयनाः सद्गब्दिकाद्यासनाः । सारम्भाः सपरिग्रहाः सविषयाः सेाः सकांक्षाः सदा, साधुव्याजविटा अहो सितपटाः कष्टं चरन्ति व्रतम् ॥२४॥ इत्याद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थितिम्, श्रुत्वान्येभिमुखा अपि श्रुतपथाद्वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोपि बिभ्रति मनः संदेहदोलाचलम्, येषां ते ननु सर्वथा जिनपथप्रत्यर्थिनोमी ततः ॥२५॥ टीका:-येषां स्थितिं प्रेक्ष्य लोकाः सोपाहासवचसः स्युरिति सम्बन्धः ॥ कथमित्याह ॥ अहो इति विस्मये सितपटाः श्वेताम्बराः कष्टं दुष्करं चरन्त्यनुतिष्टन्ति व्रतं प्रवज्यां महदाश्चर्यमेतत् यत्सितपटा: कलावप्येवंविधं व्रतकष्टमनुभवन्ति ॥ न हि सम्प्रतितनैर्मानवैरल्पसत्वैरेवंविधं कष्टं कर्तुं शक्यते ॥ ___ अथ च सर्वैरप्येवंरूपं व्रतं कर्तुं पार्यत एव सुखहेतुत्वादित्युपहासः ॥ अथ कथमेवमुपहासस्तेषां तैः क्रियत इत्यत आह ॥ साधुव्याजेन यतिछद्मना विटा: खिद्गाः नामीसाधवस्तल्लक्षणायोगात् ॥ किन्तु तद्व्याजेन विटाः सकलतल्लक्षणोपपत्तेः ॥ तदेवाह ॥ देवार्थव्ययतो देवगृहाधिपत्येन तद्रविणस्य तदधीनत्वात् जिनवित्तविनियोगेन यथारूचि रुचेः स्वेच्छाया अनतिक्रमणेत्यव्ययीभावः स्वमनोभिलाषानुरूप मित्यर्थः कृते निष्पादिते सर्वर्तुरम्ये सकलवसंतादिरूपताविभक्तकालविशेषमनोहरे मठे प्रतीते ॥ तथाह्यत्र जालिकाशुषिरविशच्छिशिरचारुमारुतविहितभीष्मग्रीष्मपृथुदवथुमथितशरीराप्यायनानि तुङ्गतासंपादितसंचरिष्णुजनतोद्भूतरथ्यारजःसंपातनायनानि वातायनानि ॥ निरुद्धप्रावृषेण्यवरेण्यजलदपटलविगलदविरलसलिलधारासारा विचित्रचित्रशालिकासारा विटङ्कोट्टङ्कित दन्तकलभा वलभयः ॥ अभवन्प्रालेयकणसंवलितहैमनपवनस्पर्शलेशा निशीथिन्यामपि सुखप्रवेशा अपवरकदेशाः ॥ एवं च कथं न सर्वर्तुरम्यता मठस्य ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy